This page has not been fully proofread.

प्रस्तावना
 
बारप्रभुणा प्रीत्या समर्पितं मरकतमणिहारं तन्मनसा सह आचकर्ष। तदनुपदमेव पण्डितवर्यस्त
मणिहारमस्मै बात्सस्येन समर्थ्य समतोषयदेनम्। ततो यज्वा महाराजमापृच्छय स्वगृहमगात् ।
महाराजोऽपि स्वप्रीतिनिदर्शनाय बहुधननिचयमनुपदमेव तस्मै प्राहिणीत् ॥
 
एवं बाळेश्वरयम्वा यदा यदा स्वप्राममाययौ, तदा तदा महीशरपुरे राज्ञा संमानवमा
इचं छत्रचामरादिकं सर्व स्वग्रामवर्तिशिवविष्ण्वाळ्याभ्यां समर्पयति स्म । यदा च 1839 तमे कि-
रत्मब्दे श्रीकाञ्च्यां श्रीकामाझ्या: महाकुम्याभिषेकः, तथा 1849 तमे श्रीजम्बुकेश्वर राख्य दिव्य-
क्षेत्रे श्रीमदखिलाण्डेश्व यस्ता प्रतिष्ठा महोत्सवश्च संप्रवर्तितः श्रीकाश्वीकामको टेपीठाधीश्वरैः
श्रीशंकराचार्यैः; तदाऽपि शास्त्रिवर्यः एवयोरुभयोरपि समययोः संनिहितः सन् तत्र कर्तव्यजातं
मपि निरबहतु इति श्रूयते । तस्बास्य यवनः परमेश्वरे निरविशया भक्तिरासीत् । यतः प्रतिदि-
नकाब शरुद्र पूर्व कर्मश्वर पूजन मन्तरा सलिलमपि पातुं नाभ्यवस्येत् इति श्रूयते । तत्रापि श्रीमध्यार्जु-
नक्षेत्राबेराजमानश्री महालिङ्गेश्वरस्य चरण कमलयोरति मात्र मावद्भक्तिप् अत एव चरमे बयसि
बर्तमानः स यदा यदा स्वजन्म भूमिमाययौ, तदा तदा अहरहर्मण्यार्जुने श्रीमहालिङ्गशम नेकन्तुति -
प्रणतिपूर्वकमध्वा न स्वापमप्याप्नुयात इति वदन्ति प्रामाणिका वृद्धाः । एवमनवरतमीश्वरं भक्त्या
भजमानः शास्त्रिवर्यः स्वभक्तिपारम्यपरिणतया श्रीमहालिङ्गशतकारूयया कयाचित्स्तोत्ररत्नावस्या
सह भगवतः श्रीमहालिङ्गेशानस्य पादपजयुगळे स्वात्मानं समर्थान्ते प्रायः अशीतितमे वयसि
भौतिकं देहमत्यजत् । अनेन शास्त्रिवर्येण कृता अभ्ये प्रन्थाः एते- हिरण्यकेशी श्रौतसूत्रव्याख्या,
सत्वामान्यसूत्रव्याख्या, दत्तचिन्तामणिः, श्राद्धचिन्तामणिः ब्रह्मसूत्रार्थचिन्तामणिः, काकताळीय-
बादार्थ: धूर्गानचन्द्रिका तर्कसंग्रहव्याख्या, श्रीमहाशितकम्, भाट्टचिन्तामणिः इति ॥
 
इत्यं महिषशतककर्तृतद्वबारूयाक्कतोः श्रीवास्छेश्वरशास्त्रिणोः कालेतिवृत्तादिकं सर्वमपि
वहंशीयै: तिरुबिसन रुल्लूर ब्रह्मभीरामस्वामिशास्त्रिभिः लिखित्वा संप्रेषितमनुसृत्यैवात्र लिखितम् ।
बतकदेवात्र प्रमाणं भवति । सम्बारूयस्यास्य मुद्रापणे च तिस्रो मातृकाः लब्धाः । एका तावत्
श्रीरामस्वामिशाखिभिः संप्रेषिता । अन्या अढैयार ब्रह्मश्रीरामचन्द्रशास्त्रिभिः प्रहिवा। अपरा तु
आदितः प्रभृति षष्टितमलोक पर्यन्ता पळुवूर बेदान्तपाठशालाध्यक्षैः गीतोपन्यासचतुर वेदान्तस्था-
पक ब्रह्मश्री सुब्रह्मण्यशास्त्रिभिः प्रदत्ता तिस्रोऽपि मातृकाः प्रायेण समानाः शुद्धा एव आसां
तिसृणामपि साहाय्यमवलम्ब्य यथामति संशोध्य प्रकाशीक्रियते । सुरभारस्यां निसर्गत एव प्रीति
भाजो गुणैकपक्षपाविनः सर्वेऽपि सहृदया अमुं प्रयास सफलयन्तु, पुनः पुनरेतादृशमन्थरत्नप्रका-
सीकरणाय प्रोत्साहयन्तु चास्मानिति भगवन्तमिन्दुकलावतंसं श्रीमहालिङ्गेश्वरमेव प्रार्थयामहे
 
इति शम् ॥
 
SHIFTINE इत्थं
सहृदयवशंवदः व्याकरण बेदान्त विद्वान्
 
THEके. एस्. बेङ्कटरामशास्त्री
 
RUBIR
 
श्री सच्चिदानन्द भारतौमाण्डाराध्यक्षः, श्रीशंकरगुरुकुलभू श्रीरङ्गम् ॥