This page has not been fully proofread.

थापना ।
 
न्यध्यैष्ट । ततः स तदा बङ्गदेशे नूव्रतया प्रचारितां गादाघरीं तदनुसारिणीमनुगमरीतिं चाध्येतुं
कृतमतिबंभूव । समयेऽस्मिन् दिष्टया स्त्रग्रामात् क्रोशद्वयदूर विद्यमान 'मणलूर्
प्राम भोनि-
बासार्यो नाम पण्डितः बङ्गदेशे नबद्वीपं गत्वा तत्र कृत्स्नामपि चतुष्षष्टिवादात्मिकां मूलत
स्वचिन्तामणि सगदाघरदीधितिमधीत्य तदानीमेच स्वप्रामं प्रतिनिवृत्तोऽभूत् । ततः प्राक
चोळदेशे जगदीश भट्टाचार्यकृत व्याख्यानस्यैव आसीत् प्रचार इत्यमियुक्ताः । अत एवेद-
प्रथमतया समानीतां नव्यन्याय सरणिमुत्माहेन महता तस्मादवीतवानय श्रीवाञ्छेश्वरः।
एतांश्च स्वकीयविद्या गुरूनये स्मरति स्वव्याख्यारम्भे- 'बन्दे दुपिंद महालिङ्ग विश्वेश
मणिकर्णिकाम् । ईश्वरश्रीनिवा सार्याहो बारूयगुरूत्तमान् ॥ इति । अष्टादशवयचः प्रांगेवायमा-
व्यात्मिकशाह्नवर्जमितरेषु सर्वेष्वपि शास्त्रेषु परिनिष्ठितबुद्धिरासीत् ॥
 
एतस्मिन्समये भोसलवंश्यः अमरसिझो नाम महाराष्ट्रराजः स्वयमबनियोऽपि नैक-
कलाकुशलो विदितविद्वद्धृदयः 'तिरुविनल्लूर्' प्रामनिकटवर्तिनि मध्वार्जुन क्षेत्रे श्री महालिङ्गे वर-
बाये कंचित्कालमुत्राम्र। तदा तस्य सदसि बङ्गदेशात्कश्चिन्नैयायिकपण्डितः समागत्य दाक्षिणा-
त्येष्वतिमात्रमप्रचारितेष्वपूर्वेषु तत्त्वचिन्तामणिगतवादविशेषेषु नव्यगाडाघरीरीत्या पूर्वरक्षानुद-
भावयत् । ते वादा न ज्ञातपूर्वाञ्चलदेशीयैः । अतस्तत्रत्या नैयायिकवृद्धा उत्तरयितुमशक्नुवन्तो
जोषमजुषन्त । राजाऽपि भग्नमना बभूव । अस्मिन्नवसरे अष्टादशवर्षदेशीचोऽयं कुट्टिशास्त्री तदुद्धा-
वितं पूर्वपक्षजातं निराकृत्य पुनस्तस्पण्डित समाधेयं पूर्वपक्षान्तर मध्यत्रतारयति स्म । ता सदसि
पण्डिताः प्रभवो राजा च सानन्दं साधुवादमकार्षुः । महाराजोऽमरसिझञ्च तत्त्वचिन्तामणिग्रन्थ
तन्नेपुण्यस्मारकं 'मणिकुट्टि' अथ वा 'चिन्तामणिकुट्टि' इति बिरुई तस्मै प्रादात । तदा
तामोदृड्डितः कश्चन जयस्तम्भोपि तत्र प्रतिष्ठापनीय इत्यध्याशयो महाराजस्थासीत्। किंतु
पण्डितप्रवराः सर्वेऽपि वर्धिष्णुरवं बालो न दृष्टिदोषविषय: कार्य इति राझे निवेदयामासुः ।
अथापि तमाशीर्वचनेन महताऽन्वगृह्णन् । इत्थं तस्वचिन्तामणिवाद वृत्तान्तस्मारक यैवानन्तरं
प्रौढे वयास स्वकृतानां प्रस्थानां प्रायेण चिन्तामणिशिरस्कं नाम व्यतानीत् ॥
 
4
 
गच्छता कालेन तवानगर्या द्वितीयः शरभोजिमहागजः १८०० तमे क्रैस्तवान्दे
पट्टाभिषिको राज्यं शासितुं प्रारभत । ● च तदा तन्नगरनिकटवर्तिनि ओरसनाडु' समास्य-
मामे वेदशास्त्राध्ययनस्थानमेकं स्थापयामास । यत्र बहूश्चोळदेशीयान्त्रिद्वन्पणीवंशपरंपरानुभ-
बाईवृत्ति कल्पनापूर्वकं संमेलयामास । तेष्वन्धवसत्वेन परिगणितोऽयं कुट्टिशास्त्री तत्र वसन् विद्या-
मध्यापयति स्म शिष्यान् । तदा तत्र 'सर्वेऽपि पण्डिताः प्रत्यहं महाराजं प्रति आशीर्वादपुरःसर
मङ्गलाक्षवान प्रदेयासुः' इति न संप्रदायः सर्वैरपि अनुसृत आसीत् । तं च संप्रदायं यथा-
कालं सर्वेष्वपि पण्डितेष्वनुतिष्ठःसु भय कुट्टिशास्त्री पुनर्यथाविधि विदितं कर्मानुष्ठाय प्रत्यहं
 
● किंचिद्विलम्बेनैव आशीरतान् प्रददाति स्म। कथमयं गतभयोऽन्वहमचतानां प्रदाने विलमत्रवे
 
- इति केचिदसूयालुभिर्बोधितो राजा एकस्मिन् दिने शामिणमाहूय विलम्ब कारणमप्राक्षीत् । शाि
महाशयस्तु राज्ञः पुरतः सविनयमस्य समाधान मुक्त्या, नातः परमत्र परतन्त्रो बसेयमिति निश्चित्
मनति, दमिन्नेव दिने तीर्थयात्राव्याजनोत्तरां दिशं प्रति प्रतस्थे । प्रस्थाय च तस्यामेव रात्रौ