This page has not been fully proofread.

प्रस्तावना ।
 

 
तस्य पश्वघमत्वात् न तम्माहात्म्यप्रतिपादने तात्पर्य कवेः अपि तु व्यङ्ग्यमर्यादया राजनि-
म्दायामेव । न तत्रापि हृदयपूर्विका प्रवृत्तिः । कदाचिदिमं प्रबन्धं श्रुत्वा राजा राजकीयाश्च
प्रजाद्रोहपरतां विहाय प्रजाहितकारिणो भवेयुरित्याशयैव । एतच स्पष्टमेवावेदयति — 'कंचि·
पश्वमं लाय विगुणं कर्तु चन्धान शतं त्वामालम्ब्य समुत्सद्दे न खत्रु तद्वर्ण्यस्य माहात्म्यतः ।
मद्रोहप्रवणाधिकारिहत कक्रोधेन तन्निन्दनव्याजात्तत्प्रभुतत्प्रमुष्वपि च वाहण्डो मया पात्यते ॥
(१०) 'श्रुत्वेमं महिषप्रबन्धमिह ये भूग गुणप्र हिगस्ते बुद्ध्वा निजदुर्गुणान्कत्रिमुखात्तद्वयङ्गय मर्या-
दया। अद्रोहेण निजाः प्रजा इव यथाधर्मे प्रजा रक्षितुं कुर्वन्तु स्वकुलकमागतवरान देशाधिकारो-
चितान् ॥ (११) एवं राजनिन्दापरेपि अस्मिन् काव्ये आदावन्ते च भोसलवंशीयानां राज्ञां,
विशिष्य प्रतापसिह्मस्य च मङ्गलान्याशास्तिये जाता बिमलेऽत्र भोसलकुले सूर्येन्दुवंशोप मे
राजानश्चिरजीविनश्च सुखिनस्ते सन्तु संदानवः (१) श्रीमद्भोसलवंशदुग्धजलवेः संपूर्णचन्द्रोपसो
यः श्लास्ति चितिमक्षति क्षितिपतिर्मूर्तः प्रतापः स्वयम् । दीर्घायुर्जितशत्रुरात्मजयुतो धर्मी प्रजा--
रागवानुल्ला घोऽस्तु स निस्तुलैर्निजसभास्तारैः क्रमादागतैः ' ॥ १०२ ॥ इति ॥
 
एवं सरसं सालंकारमनुपमत्रेणनाचातुरीप्रकर्ष शब्दशक्त्या महिषे वर्णितेपि व्यङ्गथमय-
दया राजनिन्दापरं काव्यमिमं प्रणीय तत्र तत्र शिष्यैः प्रचारं कारयामास । क्रमेण चेदं काव्यं
राशः कर्णपदवीमण्यारूढम् । राजा च सद्य एवं प्रबुद्धो भृशं दुःखितस्तत्क्षणमेव दुर्जनसहवासं
परित्यज्य स्वयमेव शास्त्रिवर्याणां गृहमागत्य तेषां पादयोर्निपत्य, स्वीयानपराधान सोढा यथापूर्व
पुनरपि साचिव्यधुरमनीकर्तुं प्रार्थयामास । शास्त्रिवर्यस्तु तदुक्तमङ्गीकृत्य तं परिवान्त्वयामास
तदुकं व्याख्यारम्भे- 'कदाचिद्वालको राजा मेलयित्वा खलान् बहून् । खेलंस्तैः सर्वदा मुग्धो
न शुभाव हितं वचः । तेभ्यो निवर्तयन्भूपं सन्मार्गे संप्रवर्तयन्। महिषस्तुतितो राजबुद्धिं चक्रे
सुनिर्मलाम् ॥" इति ॥
 
किं च,
अस्मिन्काव्ये महिषस्तुतिब्याजेन श्लेषेण तस्य सार्वात्म्यं प्रतिपाद्यते। स्पष्टमेव
हि तैत्तिरीयोपनिषत्प्रतिपादित सत्यज्ञानानन्दपुच्छब्रह्मरूपता वर्णिता । तस्यैव शिवविष्ण्डादिरूपेण
मत्स्यकूर्माद्यवतारमूर्तित्वेन इन्द्रादिदेवतात्वेन मध्यरामानुजायाचार्य पुरुषत्वेन अन्येश्च बहुभिः प्रकारैः
निरूपणं कृतम् । एतयोपलक्षणं सत्रोत्मकतायाः । सार्वात्म्यं च 'इदं सर्वं यदयमात्मा' ' एकं सद्विप्रा
बहुधा वदन्ति' इत्यादिश्रुतिषु ब्रह्मण एव प्रसिद्धम् अतोऽत्र कोः न महिवस्य तत्तदात्मप्रति-
पादने तात्पर्यम् । अपि तु महिषव्याजेन ब्रह्मण एव सार्वात्मवं प्रतिपिपाद चिषितम् । एवं चास्य
प्रबन्धस्य महातात्पर्यमद्वैते ब्रह्मण्येवेत्यपि न परोक्षं प्रेक्षावताम् । व्याख्याताऽव्य भिहितमेतत् ।
यथा उपक्रमे — 'स्वीय प्रन्थस्योपनिषत्प्रतिपयाद्वितीयात्मप्रतिपाइनद्वारा निःश्रेयसोपयोगितां तत्र
इति । उपसंहारेऽपि - 'एवं
तत्व प्रकटयिष्यन् महिषप्रवन्वाख्यं महाकाव्यं चिकीर्षुः
महिषं सर्वदेवात्मकत्वेन सर्वोत्कृष्टवस्तुत्वेन राज्ञोऽधिकतरत्वेन च स्तुत्वा वन्मुखेन सर्वा-
हैवं प्रबन्धपरमतात्पर्यविषयीभूतं निरूप्य' इति । राज्ञः सन्मार्गप्रवर्तनं तु अवान्तरतात्पर्यविषयी-
मूवमेवेत्वनि तत्रैबोकम् ॥