This page has been fully proofread once and needs a second look.

अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रमे
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरु मे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२१।।
 
अयि मयीति । अयि मयि दीनदयालुतया करुणापरया
भवितव्यमुमे इति पठितव्यम् । कृपयैव त्वयेति पाठे छन्दोभङ्गात् ।
अयि उमे दीनदयालुतया हेतुना । मयि करुणापरया भवितव्यं त्वयेति
पाठे तवेत्यर्थे तृतीया स्यात् । दीने दयालुता यस्याः तथा त्वयेति वा
क्लेशेन योज्यमं । दीनदयाल्वा त्वया भवितव्यम् अयि मातः त्वं
कृपयेव जगतो जननी असि । न तु परवशा सती । ननु बाधितो हेतुः ।
न । यथाऽसि तथैवानुमितासि । रते इति सम्बोधनम् । रते भक्ते
मयि यदुचितमिति परेणान्वयो वा । रमे इति पाठान्तरं तु सुगमम्।
अत्र अस्मिन् संसारे यदुचितं मत्कृते तदुररीकुरुताद् भवतीत्याशासे ।
उरुतापम् अपाकुरुतात् । अपाकुरु ते इति पाठश्चिन्त्यः । अपाकुरु
मे इति पाठान्तरं सुगमम् । तस्य यदुचितमित्यनेन उरुतापमित्यनेन
च सम्बन्धः | जय जयेति | ||२१||
 
हे माता ! तुम दीनदयालु हो, मुझ पर करुणा करो । हे
जगज्जननी! हे जगत्पालनकारिणी अम्बा ! तुम्हारी कृपा से जैसे