This page has been fully proofread once and needs a second look.

तव-विमलेऽन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दमुखी- सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवतीकृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२०।।
 
तवेति । हे विमले तव अन्दुकं बन्धनं लातीत्यन्दुकलम्
स्वस्वरुपबन्धनकरं वदनेन्दुं मुखचन्द्रमसं सकलं कलासहितं यः खलु
कूलयते दुःखनदीकूलं करोति । कलयन्ननुकूलयते इति पाठान्तरम् ।
तत्र तादृशं मुखचन्द्रं कलयन् चिन्तयन्ननुकूलयते त्वामिति शेषः । असौ
पुरुहुतपुर्या इन्द्रपुर्याः इन्दुमुखीभिरिहापि सुमुखीभिश्च विमुखीक्रियते
किम् ? निषिध्य परावर्त्त्य​ते किम् ? नैव ।
भगवतीकृपामात्रमपेक्षमाणस्यसर्वमपि भवतीत्याह- हे शिवनामधने
शिवनामैव धनं यस्याः सा तथा । "यद् द्व्य​क्षरं नाम" इत्यादि
भागवते । किं पुनः वक्तव्यं मम तु मतमभीष्टं भवतीकृपया- भवत्याः
कृपया क्रियते सम्पाद्यत इति । जय जयेति । ||२०||
 
रमणीय केशपाश विभूषित हे शैलपुत्री ! महिषासुरमर्दनकारिणी
हे माता ! तुम्हारी जय हो । हे अम्बा ! तुम्हारा मुखचन्द्र षोडश
कलापूर्ण है । अपनी ओर सब को आकृष्ट कर आबद्ध करने वाला
है । उसी मुख चन्द्रमा को ही दुःखनदी का पार किनारा स्वीकार