This page has been fully proofread once and needs a second look.

demon, Mahisha, wearing a charming knot of
hair, Oh Daughter of Mountain (Himalaya),
Victory to you, Victory to you. ( 14 )
 
शबरीस्वरूपमाह
 
कर - मुरली - रव- वीजित - कूजित-लज्जित कोकिल-मञ्जुरुते
मिलित- मिलिन्द - मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते ।
निजगुणभूत-महाशबरीगण-सद्गुण-सम्भृत- केलितते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१५।।
 
करेति । करगतायाः मुरल्या रवेण वीजितं तिरस्कृतम्, ईज
गतिकुत्सनयोरिति धातोर्विपूर्वस्य, कूजितं येषां ते अत एव लज्जिताः
कोकिला यस्मिन्नेवंविधं मञ्जुरुतं यस्याः सा तथा । मञ्जुमते इति पाठे
करमुरलीरवतिरस्कृतेन स्वकूजितेन लज्जिता कोकिलमञ्जुमतिः यया
सा तथेति व्याख्येयम् । कोकिलस्य स्वविषये या मञ्जुत्वमतिर्लोकानां
वा कोकिलविषये या मञ्जुत्वमतिः सा लज्जितेति । मिलितेति ।
मिलितानां मिलिन्दानां भ्रमराणां मनोहरेण गुञ्जितेन रञ्जिते शैलनिकुञ्जे
गता स्थिता तत्सम्बुद्धौ । पुलिन्देति पाठे पुलिन्दरूपेणागतः शिवो
ज्ञेयः । स्वमिलितेति च योज्यम् । पार्वतीपरमेश्वरौ पुलिन्दरूपेण
मिलितौ मनोहरं जुगुञ्जतुरिति । निजेति । निजगुणभूतः स्वीयाङ्गभूतः