This page has been fully proofread once and needs a second look.

charming knot of hair, Oh Daughter of Mountain
(Himalaya ), Victory to you, Victory to
you. (12)
 
उपास्यनानारूपेषु मातङ्गी-लक्ष्मी कामेश्वरीरूपाणि आदाय आह
 
अविरल-गण्डगलन् -मद - मेदुर- मत्त-मतङ्गजराज-पते
त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते ।
अयि सुंदतीजन-लालस-मानस- मोहन- मन्मथराज - सुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१३।।
 
अविरलं सघनं निरन्तरं वा गण्डाद् गलता च्योतता मदवारिणा
मेदुराः स्निग्धा ये मत्तमतङ्गज- राजाः तेषां पतिः स्वामिनी मातङ्गीत्यर्थः
। तत्सम्बुद्धौ । क्वचिन्मत्तमतङ्गजराजगते इति पाठः । तदा एवंविधा
ये मत्ता मतङ्गजाः तेषां राजा ऐरावतः तस्य गतिरिव गतिर्यस्याः सा
तथा गजराजविराजितमन्दगतिरितिप्रसिद्धम् । त्रिभुवनेति । त्रिभुवने
भूषणभूतो यः कलानिधिः चन्द्रमाः तस्य रूपमिव रूपं यस्याः सा च
सा पयोनिधिराजस्य सुता क्षीरसागरकन्यका तत् सम्बुद्धौ । हे
लक्ष्मीस्वरूपेत्यर्थः । अयीति । सुदतीजनेषु सुन्दरीषु लालसं मानसं
येषां तेषां मोहनी च सा मन्मथराजसुता च कामराजेश्वरीत्यर्थः । षु