This page has been fully proofread once and needs a second look.

महितेति । महितो महीकृतो महाहवो याभिः तादृश्यो मल्लमतल्लिका
मल्लश्रेष्ठा यत्र । मतल्लिका मचर्चिकेत्यादयः प्रशस्तवाचकाः । एवंविधे
मल्लिते युद्धे रल्लकं पक्ष्मकदम्बं भ्रुकुटिरेव मल्लः प्रतिमल्लः,
भ्रुकुटिविक्षेपमात्रं प्रतिमल्लकर्मेति भावः । तत्र रते । विरचितेति ।
विचरिता वल्लिकैः वल्लिसमुदायैः पल्लिकाः कुटीराणि नीडानीति यावत्
'। यैः तेषां मल्लिकानाम् आलोहितचञ्चुचरणानां राजहंसानां झिल्लिका
- आतपरोचिः पक्षप्रतिबिम्बित धवल सौरकिरण- प्रकाशो यत्र,
एवंविधानां भिल्लिकानां लोध्रवृक्षाणां वर्गेण समुदायेन वनेन वृता
तन्मध्यवर्तिनः पार्वतीरूपेत्यर्थः । तत्सम्बुद्धौ । वल्लिशब्दस्य
स्त्रीलिङ्गत्वेऽपि वल्लिं कायन्तीति वा ब्रीह्यादेराकृतिगणत्वेनहलन्तत्वाद्
वा वल्लिकशब्दो वल्लीसमुदायार्थेसुयोजः । लोध्रवृक्ष- रक्षणार्थं पार्वत्या
सिंहनियुक्ती रघुवंशे प्रसिद्धा । हंसाश्च अण्डप्रदानाय लोध्रवृक्षेषु
नीडानि कुर्वन्ति । सितेति । सितौ ईषच्छवेतिमयुक्तौ च कृतफुल्लौ
किञ्चिद्विकासितौ च तौ समुल्लसितौ चरणतल्लजौच पदौ यौ तदीयलवेन
विलासेन सल्ललिते - परमलालित्यवति । पद्- लव इत्यस्य सन्धौ
पल्लवः । "लवः कालभिदिच्छिदि । विलासे रामजे लेशे तथा
किञ्जल्कपक्ष्मणोः" इति अमरकोश-रामाश्रम्यामुद्धृत हैमपाठः ।
तदा पदकिञ्जल्कार्थोऽपि सुघटः । जय जयेति । ।।१२।।
 
जय हो माता महिषासुरमर्दिनी! जय हो रमणीय केशपाशधारिणी