This page has been fully proofread once and needs a second look.

शृङ्गहता वटुत्वादसुराणाम् । कृतेति । स्वकृता दानवानां चतुरङ्गबलस्य
क्षितिः क्षयो यत्र तादृशो यो रङ्गो रणभूमिः "रङ्गो ना रागे नृत्यरणक्षितौ
" इति मेदिनी । तत्र निर्भयं घटन्तो घटमानाः चेष्टमाना बहुरङ्गं यथा
स्यात् तथा रटन्तो बटुका यस्याः सा तथा । चतुरङ्गबलनाशे निर्भया
बाला अपि भटानुकरणं कुर्वन्तो रटन्तश्चेष्टन्ते तथेति ।
घटधातोरात्मनेपदित्वात्परस्मैपदप्रयोगः "संज्ञापुर्वको विधिरनित्य"
इत्याश्रित्य नेयः । यद् वा घटनं समुदायीभवनं घटः । घट इव
आचरन्तो घटन्त एकत्रीभवन्त इति व्याख्येयम् । बहुरङ्गशब्दो
वैविध्यार्थे भाषायां प्रयुज्यमान उपलभ्यते - 'बहुरङ्गी समाज' इत्यादौ ।
अथवा कृता चतुरङ्गबलक्षितिः यस्मिन् तत्र रङ्गे घटन्तो बहुरङ्गा
नानारङ्गा रटन्तश्च बटुका बटुकभैरवबटुकविनायकादयो यस्याः सा
तथेति विग्रहः । जय जयेति । ॥७॥
 
हे माता ! युद्ध में तुम धनुषटंकार जब करने लगती तब समस्त
अंग हिलने लगते थे तो उसके संग से कटककंकण नृत्य करने लगते
थे । सुवर्णमय पीले बाणवाला तूणीर लिये कोलाहल करते हुए सामने
आये शत्रुओं की गर्दनों को तुम तोडती जा रही थी । इस प्रकार जहाँ
दानवों की चतुरंग सेना का विनाश हुआ वह रणभूमि ऐसी सुनसान
हो गयी कि वहाँ बच्चे भी निर्भय होकर सैनिकों का अनुकरण करते
हुए खेलने लगे थे । धन्य हो जय हो हे महिषासुरमर्दिनी जय हो