This page has been fully proofread once and needs a second look.

demon, Mahisha, wearing a charming knot of
hair, Oh Daughter of Mountain ( Himalaya),
Victory to you, Victory to you. ( 5 )
 
तत्रैव धूम्रलोचन-रक्तबीज-शुम्भनिशुम्भवधमाह -
 
अयि निजहुंकृतिमात्र- निराकृत-धूम्रविलोचन-धूम्रशते
समर-विशोषित-शोणितबीज-समुद्रवशोणित- बीज-लते ।
शिव-शिव-शुम्भनिशुम्भमहाहव-तर्पित-भूतपिशाचपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।६।।
 
अयि निजेति । निहुङ्कृतिमात्रेण निराकृतो धूम्रविलोचनश्च
धूम्राणां धूम्रविलोचनानुयायिनां शतानि च यया सा तथा । "वृतः
षष्ट्या सहस्राणामसुराणां द्रुतं ययौ" इति षष्टिसहस्राणि
धूम्रलोचनस्यानुयायिनः। समरेति । समरे युद्धे विशोषितं
रक्तबीजसमुद्भवं शोणितरूपं बीजं सहस्रशः शोणितासुरोत्पादनप्रयोजकं
यया सा च सा लता च नारी चेति तथा । " लता नवा गन्धवहेन चुम्बिता "
इति नैषधप्रयोगे नवा नवीना लता माधवीलता नवा रम्या लता नारी
च इति टीकादर्शनाल्लतापदं नारीवाचकमपि । शिव शिवेति । शिव
शिवेत्युञ्चारणपूर्वकं शुम्भनिशुम्भयोर्महायुद्धे तर्पितो भूतपिशाचपतिः
शङ्करो यया सा तथा । तथा चोक्तं - " ततः परिवृतस्ताभिरीशानो