This page has been fully proofread once and needs a second look.

<page>
<p text="D" n="2">
wearing a charming knot of hair, Oh Daughter

of Mountain (Himalaya), Victory to you,

Victory to you. (2)
 
</p>
<p text="B" n="2">
प्रथमचरित्रार्थदर्शनपूर्वकं ध्येयस्वरूपमाह --
 
</p>
<verse>
अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते

शिखरिशिरोमणि-तुङ्गहिमालय-शृङ्गनिजालय-मध्यगते ।

मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते

जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥३॥
 
</verse>
<p text="B" n="3" merge-text="true">
अयि जगदम्बेति। जगतामम्ब, विशेषतश्च मदम्ब, कदम्बवने

प्रियं यथा स्यात् तथा वस्तुं शीलं यस्याः सा तथा | कदम्बवनं

प्रियवासः वासस्थानं अस्या अस्ति तथेति वा । हासरते "

जहासारुणलोचना" इत्युक्तेः । शिखरिणां पर्वतानां शिरोमणिर्यस्तुङ्गो

हिमालयस्तस्य शृङ्गमेव शृङ्गस्थो वा यो निजालयस्तन्मध्यगते

तन्मध्यवासिनि। मधुवत् पुष्परसंवद् वसन्तवद् वा मधुरे सरसे। मधौ

विष्णौ मधुरे इति वा। मधुसूदननामैकदेशत्वाद्

मधुर्विष्णुर्मधुवंशीयत्वाद् वा । मधुकैटभगञ्जिनि । मधुकैटभावसुरौ

गञ्जयतीति तथा। "गञ्जः स्यात्पुंसि रीढायां भाण्डागारे तु न स्त्रियाम्

" इति मेदिनी । रीढा तिरस्कारस्तां करोतीति णिच् । तत्करोति तदाचष्टे
 
</p>
</page>