This page has been fully proofread once and needs a second look.

Siva (in particular), consort of many (Brahma,
Vishnu and Siva), maker of many (beings) who
has crushed the demon, Mahisha, wearing a
charming knot of hair, Oh Daughter of Mountain
(Himalaya), Victory to you, Victory to you. (1)
 
भूरिकरणमुक्त्वा भूरिरक्षणमाह -
 
सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि कल्मषमोषिणि घोषरते ।
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२।।
 
सुरवरेति • सुरेभ्यो वरान् वर्षति तच्छीला तथा । " व्रियतां
त्रिदशाः सर्वे यदस्मत्तोऽभिवाञ्छितम्" इत्युक्तेः । अत एव
दुर्धरनामानं महिषंसेनापतिं धर्षयति तथा । दुर्मुखनामानं मर्षयति
नाशयतीति तथा । दुर्धरान्दुर्मुखांश्च दुष्टान् हन्तीति वा । हर्षे स्वीये
परकीये च रते । देवरक्षणासुरनिकन्दनाभ्यां त्रिभुवनपोषणशीले,
मङ्गलवितानेन शङ्करतोषणशीले, स्वसेविनां कल्मषहरणशीले । घोषे
शत्रुवधकालीनगर्जने वेदघोषादौ वा रते । दनुजनीनां दानवानां रोषिणि
। रुषिर्हिसार्थः । दितिकुलानां दैत्यानां रोषिणि । दुर्मदानां शोषिणि,