This page has been fully proofread twice.

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दनुते
गिरिवर-विन्ध्य-शिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥१<fix></fix>
 
<commentary> वन्दे भगवतीमम्बां महिषासुरमर्दिनीम् ।
व्याख्यास्येऽथातिसंक्षेपात्तत्पुष्पाञ्जलिमादरात् ॥
 
सकलपुरुषार्थदायिनीं देवीं भगवतीमभिष्टुवन्<flag>न्</flag> कश्चित् कविः प्रथमं
तस्याः स्वरुपं सामान्यतः कार्यं चाह-
अयि गिरिनन्दिनि -अयीति सानुनये सम्बोधने । गिरेर्हिमालयस्य
पर्वतस्य नन्दिनी पुत्री पार्वती तत्सम्बुद्धौ हे गिरिनन्दिनि । एवमुत्तरत्र
सर्वत्र सम्बुद्ध्यन्तं बोध्यम् । गिरीन् पर्वतान् स्वशक्त्याधानेन
नन्दयति तच्छीला तथा, यैः क्ष्माभृद्भिर्मेदिनी नन्दिता भवतीति वा ।
गिरीन् पूज्यान् नन्दयतीति वा । नन्दिता मेदिनी यया सा तथा ।
मेदिनीनन्दनेनैव विश्वविनोदिनी मेदिनीजातमानवकृतकर्मादि-
नन्दनीयत्वाद् विश्वस्य । कथमेषा विश्वं विनोदयामासेत्येतद्
उदाहरणेनाह नन्दनुत इति । नन्दगेहे किल जातैषा यद्यपि प्रथमं न </commentary>