This page has been fully proofread once and needs a second look.

कनकलसत्कल-सिन्धुज़लैरनुषिञ्चति ते गुणरङ्गभुवं
भजति स किं न शचीकुचकुम्भ-तटीपरिरम्भ-सुखानुभवम् ।
तवचरणं शरणं करचाणि नतामरवाणि निवासि शिवं
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१९ ।।
 
तव - विमलेऽन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दुमुखी- सुमुखीभिरसौ विमुखीक्रियते
मम तु मतं शिवनामधने भवतीकृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२०।।
 
अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथाऽनुमितासि रमे ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरु मे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।२१।।