This page has been fully proofread once and needs a second look.

रुणाबुद्ध्या वा । अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति “सं-
देशं मे हर" इत्येवंरूपा तत्र वर्तिनो निर्बन्धपरस्य मे ममैतत्संदेश-
हरणरूपं प्रियं कृत्वा संपाद्य प्रावृषा वर्षाभिः ॥ " स्त्रियां प्रावृट् स्त्रियां
भूम्नि वर्षाः " इत्यमरः ॥ संभृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिल-
षितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः ॥ " देशकालाध्वगन्तव्याः
कर्मसंज्ञा ह्यकर्मणाम्" इति वचनात्कर्मत्वम् ॥ एवं मद्वत्क्षणमपि
स्वल्पकालमपि ते तव विद्युता । कलत्रेणेति शेषः । विप्रयोगो विरहो
मा भून्मास्तु ॥ माङीत्याशिषि लुङ् ॥ " अन्ते काव्यस्य नित्य-
त्वात्कुर्यादाशिषमुत्तमाम् ॥ सर्वत्र व्याप्यते विद्वान्नायकेच्छानुरूपि-
णीम् ॥" इति सारस्वतालंकारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽय-
माशीर्वादः प्रयुक्त इत्यनुसंधेयम् ॥
 
इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते
मेघदूतकाव्य उत्तरमेघः समाप्तः ।
 
 
५२ श्लोकस्यान्त इमे प्रक्षिप्ता दृश्यन्ते
 
तस्मादद्रेर्निगदितमथो शीघ्रमेत्यालकायां
यक्षागारं विगलितनिभं दृष्टचिह्नैर्विदित्वा ।
यत्संदिष्टं प्रणयमधुरं गुह्यकेन प्रयत्ना-
त्तद्गेहिन्याः सकलमवदत्कामरूपी पयोदः ॥
 
तं ( तत् ) संदेशं जलधरवरो दिव्यवाचाचचक्षे
प्राणास्तस्या जनहितरतो रक्षितुं यक्षवध्वाः ।
प्राप्योदन्तं प्रमुदितमना सापि तस्थौ स्वभर्तुः
केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ (ह्युन्नतेषु, भ्युन्नतेषु ) ॥
 
श्रुत्वा वार्तां जलदकथितां तां <fix>ध</fix><error>घ</error>नेशोऽपि सद्यः
शापस्यान्ते (न्तं) सदयहृदयः संविधायास्तकोपः ।
संयोज्यैतौ विगलितशुचौ दंपती हृष्टचित्तौ
भोगानिष्टानवि( भि )रतसुखं भोजयामास शश्वत् ॥