This page has been fully proofread once and needs a second look.

निःशब्दोऽपि प्रदिशसि जलं [^1]याचितश्चातकेभ्यः
प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ५१ ॥
 
कच्चिदिति ॥ हे सौम्य, साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥
देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामी-
ति निश्चितं किम् ॥ "कच्चित्कामप्रवेदने" इत्यमरः ॥ अभिप्राय -
ज्ञापनं कामप्रवेदनम् ॥ न च ते तूष्णींभावादनङ्गीकारं शङ्के यतस्ते स
एवोचित इत्याह – प्रत्यादेशात् "करिष्यामि " इति प्रतिवचनात् ॥
“उक्तिराभाषणं वाक्यमादेशो वचनं वचः" इति शब्दार्णवे ॥ भवतस्तव
धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीका-
रज्ञानं तत्राह -याचितः सन्निःशब्दोऽपि निर्गर्जितोऽपि । अप्रतिजाना-
नोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदि-
त्याह – हि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सि-
तार्थप्रियैवापेक्षितार्थसंपादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवल-
मुत्तरमित्यर्थः ॥ " गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो
मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥” इति भावः ॥
 
संप्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो
मेघं विसृजति –
 
एतत्कृत्वा [^2]प्रियमनुचितप्रार्थनावर्तिनो मे
सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्ध्या ।
इष्टान्देशाञ्जलद विचर प्रावृषा संभृतश्री-
र्मा भूदेवं [^3]क्षणमपि च ते विद्युता विप्रयोगः ॥ ५२ ॥
 
एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ “हृद्भगसिन्ध्वन्ते
पूर्वपदस्य च" इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ॥
" विधुरं तु प्रविश्लेषे" इत्यमरः ॥ मयि विषयेऽनुक्रोशबुद्ध्या क
 
[^1] याचितम् [^2] प्रियमनुचितं प्रार्थनादात्मनः; प्रियसमुचितं प्रार्थनादात्मनः;
प्रियसमुचितं प्रार्थनं चेतसः; प्रियमनुचितं प्रार्थनावर्त्मनः, प्रियसमुचितं प्रार्थितं
चेतसः [^3] क्वचिदपि न.