This page has been fully proofread once and needs a second look.

स्तुनि विषये । उपचितो रसः स्वादो येषु त उपचितरसाः सन्तः ।
प्रवृद्धतृष्णा इत्यर्थः ॥ “रसो गन्धरसे स्वादे तिक्तादौ विषराग-
योः” इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त
इत्यर्थः ॥ स्नेहप्रेम्णोरवस्थाभेदाद्भेदः । तदुक्तम् – “आलोकनाभि-
लाषौ रागस्नेहौ ततः प्रेमा । रतिशृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥"
इति । तदेव स्फुटीकृतं रसाकरे - " प्रेक्षा दिदृक्षा रम्येषु तच्चिन्ता त्व-
भिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्नेहस्तत्प्रवणक्रिया ॥ तद्वियो-
गासहं प्रेम रतिस्तत्सहवर्तनम् । शृङ्गारस्तत्समं क्रीडा संयोगः स-
प्तधा क्रमात् ॥” इति ॥
 
इत्थं स्वकुशलं संदिश्य तत्कुशलसंदेशानयनमिदानीं याचते-
 
आश्वास्यै[^1]वं प्रथम[^2]विरहोदग्रशोकां सखीं [^3]ते
शैलादा[^4]शु त्रिनयनवृषोत्खातकूटान्निवृत्तः ।
[^5]साभिज्ञानप्रहितकुशलै[^6]स्तद्वचोभिर्ममापि
प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ५० ॥
 
आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पू-
र्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य त्र्यम्बकस्य वृषेण वृषभेणो-
त्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ "कूटोऽस्त्री
शिखरं शृङ्गम्” इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः
सन्साभिज्ञानं सलक्षणं यथातथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्या-
स्त्वत्सख्या वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिलं दुर्बलं जीवितं
धारयेथाः स्थापय ॥ प्रार्थनायां लिङ् ॥
 
संप्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति
 
कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे
[^7]प्रत्यादेशान्न खलु भवतो धीरतां [^8]कल्पयामि ।
 
[^1] एनाम्. [^2] विरहादुग्रशोकाम्; विरहेणार्द्रशोकाम्. [^3] मे; स्वाम्. [^4] अ-
स्मात् [^5] साभिज्ञानम्. [^6] त्वद्वचोभिः. [^7] प्रत्याख्यानात्, प्रत्याख्यातुम्;
प्रत्याख्यानम् [^8] तर्कयामि,