This page has been fully proofread once and needs a second look.

शक्रयोः" इति विश्वः । राज्ञां राजा राजराजः कुबेरः ॥ “राजराजो
धनाधिपः" इत्यमरः । “राजाहःसखिभ्यष्टच्" इति टच्प्रत्ययः ॥
तस्यानुचरो यक्षः । अन्तर्बाष्पो धीरोदात्तत्वादन्तःस्तम्भिताश्रुः सन् ।
कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ "कौतुकं चाभिलाषे स्या-
दुत्सवे नर्महर्षयोः” इति विश्वः ॥ तस्य मेघस्य पुरोऽग्रे कथमपि ॥
गरीयसा प्रयत्नेनेत्यर्थः ॥ "ज्ञानहेतुविवक्षायामप्यादि कथमव्ययम् ।
कथमादि तथाप्यन्तं यत्नगौरवबाढयोः" इत्युज्ज्वलः ॥ स्थित्वा चिरं
दध्यौ चिन्तयामास ॥ “ध्यै चिन्तायाम्” इति धातोर्लिट् ॥ मनो-
विकारोपशमनपर्यन्तमिति शेषः ॥ विकारहेतुमाह - मेघालोक इति ॥
मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसंगतस्यापि चेतश्चि-
त्तमन्यथाभूता वृत्तिर्व्यापारो यस्य तदन्यथावृत्ति भवति । विकृतिमा-
पद्यत इत्यर्थः । कण्ठाश्लेषप्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे
संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः । विरहिणः किमुत
वक्तव्यमित्यर्थः । विरहिणां मेघसंदर्शनमुद्दीपनं भवतीति भावः ॥ अर्था-
न्तरन्यासोऽलंकारः । तदुक्तं दण्डिना – “ज्ञेयः सोऽर्थान्तरन्यासो वस्तु
प्रस्तुत्य किंचन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः" इति ॥
 
अथ समाहितान्तःकरणः सन्किं कृतवानित्यत आह –
 
प्रत्यासन्ने नभसि दयिताजीविताल[^1]म्बनार्थी
जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् ।
[^2] स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै
प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४ ॥
 
प्रत्यासन्न इति ॥ स यक्षः । यश्चिरं दध्यौ स इत्यर्थः । नभसि
श्रावणे ॥ "नभः खं श्रावणो नभाः" इत्यमरः ॥ प्रत्यासन्न आषाढ-
स्यानन्तरं संनिकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी
सन् । वर्षाकालस्य विरहदुःखजनकत्वात् “उत्पन्नानर्थप्रतीकारादनर्थो-
त्पत्तिप्रतिबन्ध एव वरम्" इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं
चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥
 
[^1] लम्बनार्थाम्; लम्बनार्थम्. [^2] संप्रत्यग्रैः.