This page has been fully proofread once and needs a second look.

सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे
दृष्टः स्वप्ने कितव रमयन्कामपि त्वं मयेति ॥ ४८ ॥
 
भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति
शेषः । मेघवचनमेतत् । किमित्यत आह - पुरा पूर्वम् । पुराशब्दश्चि-
रातीते ॥ " स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा" इत्यमरः ॥
शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न संभवेदिति
भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः । सस्वनं सश-
ब्दम् । उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीरिति शेषः । अ-
सकृद्बहुशः पृच्छतः । रोदनहेतुमिति शेषः । मे मम हे कितव, त्वं
कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासं समन्दहासं यथा
तथा कथितं चेति । त्वद्भर्ता भूयश्चाहेति योजना ॥
 
एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा
मा कौलीनाच्च[^1]कितनयने मय्यविश्वासिनी भूः ।
स्नेहानाहुः किमपि [^2]विरहे ध्वंसिनस्ते [^3]त्वभोगा-
दिष्टे[^4] वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४९ ॥
 
एतस्मादिति ॥ एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं
लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा ।
हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकप्रवादात् । एता-
वता कालेन परासुर्नो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ " स्या-
त्कौलीनं लोकवादे युद्धे पश्वहिपक्षिणाम्" इत्यमरः ॥ मयि विषये-
sविश्वासिनी मरणशङ्किनी मा भूर्न भव ॥ भवतेर्लुङ् । “न माङ्यो-
गे" इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्ति -
राशङ्कयेत्याह – स्नेहानिति । किमपि किंचिन्निमित्तम् । न विद्यत इति
शेषः । स्नेहान्प्रीतिर्विरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्व-
रानाहुः । तत्तथा न भवतीत्यभिप्रायः किंतु ते स्नेहा अभोगाद्विरहे
भोगाभावाद्धेतोः ॥ प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे व
 
[^1] असित [^2] विरहहासिनः; विरहव्यापदः [^3] ह्यभोग्याः [^4] दृष्टे.