This page has been fully proofread once and needs a second look.

पश्चादावां विरह[^1]गुणितं तं तमात्माभिलाषं
निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४७ ॥
 
शापन्त इति ॥ शार्ङ्गं पाणौ यस्य स तस्मिञ्शार्ङ्गपाणौ विष्णौ ॥
“सप्तमीविशेषणे —" इत्यादिना बहुव्रीहिः । “प्रहरणार्थेभ्यः परे
निष्ठासप्तम्यौ भवतः" इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः
शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसा-
नम् । भविष्यतीति शेषः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्र-
भृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न विवक्षित -
मित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहये -
त्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ॥ “त्यदादीनि सर्वैर्नित्यम्"
इत्येकशेषः ॥ “त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते” इत्य-
स्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यामीति मनस्यावर्तितम् ।
तं तम् ॥ वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् ।
परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु निर्वेक्ष्यावो भो-
क्ष्यावहे ॥ विशतेर्लृट् ॥ “निर्वेशो भृतिभोगयोः" इत्यमरः ॥ अत्र
कैश्चित् "नभोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षि-
कत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः" इति पर्यहारि
तत्सर्वमसंगतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते
वर्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेनोक्तम् "कथमा-
षाढादिचतुष्टयात्परं शरत्कालः" इति, तत्राप्याकार्तिकसमाप्तेः शरत्का-
लानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव उक्त
इत्यविरोध एव ।
 
संप्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति-
 
भूयश्चा[^2]<error>हं</error><fix>ह</fix> त्वम[^3]पि शयने कण्ठलग्ना पुरा मे
निद्रां गत्वा किमपि रुदती [^4]सस्वनं विप्रबुद्धा ।
 
[^1] गणितम्; जनितम् [^2] अपि [^3] असि. [^4] सत्वरम्; सत्स्वरम्.