2022-10-12 13:44:59 by suhasm
This page has been fully proofread once and needs a second look.
केन प्रकारेण संक्षिप्येत लघूक्रियेत । अहरपि सर्वावस्थासु । सर्वका-
लेष्वित्यर्थः । मन्दमन्दो मन्दप्रकारः ॥ " प्रकारे गुणवचनस्य" इति
द्विरुक्तिः । “कर्मधारयवदुत्तरेषु" इति कर्मधारयवद्भावात्सुपो लुक् ॥
मन्दमन्दातपमत्यल्पसंतापं कथं स्यात् । न स्यादेव । हे चटुलनयने
चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम
चेतो गाढोष्माभिरतितीतव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥
न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह –
[^1] नन्वात्मानं बहु विगणय[^2]न्नात्मनैवावलम्बे
तत्कल्याणि त्वमपि [^3]नितरां मा गमः कातरत्वम् ।
कस्यात्यन्तं सुखमु[^4]पनतं दुःखमेकान्ततो वा
नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४६ ॥
नन्विति ॥ नन्वित्यामन्त्रणे ॥ "प्रश्नावधारणानुज्ञानुनयामन्त्रणे
ननु " इत्यमरः ॥ ननु प्रिये, बहु विगणयञ्शापान्ते सत्येवमेवं करि-
ष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ "प्रकृत्यादिभ्य उपसंख्या-
नम्” इति तृतीया ॥ अवलम्बे धारयामि । यथाकथंचिज्जीवामी-
त्यर्थः । तत्तस्मात्कारणात् । हे कल्याणि सुभगे, त्वत्सौभाग्येनैव जी-
वामीति भावः ॥ "बह्वादिभ्यश्च" इति ङीष् ॥ त्वमपि नितरामत्यन्तं
कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ “न माङ्ग्योगे" इत्यडाग-
माभावः । तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न बिभेमीत्याश-
ङ्क्याह — कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमे-
कान्ततो नियमेन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्ग-
स्य नेमिस्तदन्तः ॥ "चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्यात्प्रधिः
पुमान्" इत्यमरः ॥ तस्याः क्रमेण परिपाट्या ॥ "क्रमः शक्तौ
परिपाट्याम्” इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते ।
एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ॥
न च निरवधिकमेतद्दुःखमित्याह -
शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ
शेषन्मासान्गमय चतुरो लोचने मीलयित्वा ।
[^1] नतु, इति. [^2] न. [^3] सुतराम्. [^4] उपगतम्. [^5] मासानेतान्; मासानन्यान्.