This page has been fully proofread once and needs a second look.

प्रयोगः । तथा चाधिकारसूत्रम् – “स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वय-
प्रयोगः सिद्धः" इति । "महात्मगुरुदेवानामश्रुपातः क्षितौ यदि ।
देशभ्रंशो महद्दुःखं मरणं च भवेद्ध्रुवम् ॥” इति क्षितौ देवताश्रुपातनि-
षेधदर्शनाद्यक्षस्य मरणाभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ॥
इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह –
 
भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां
ये [^1]तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः ।
आलिङ्ग्यन्ते गुणवति मया ते तुपाराद्रिवाताः
पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४४ ॥
 
भित्त्वेति ॥ देवदारुद्रुमाणां किसलयपुटान्पल्लवपुटान्सद्यो भित्त्वा ।
तत्क्षीरस्रुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरस्रुतिभिः क्षीरनिष्यन्दैः
सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन
दक्षिणमार्गेण ॥ तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानात्तृतीया स-
मेन यातीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् "कर्तृकर-
णयोरेव तृतीया " इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः हे गुणवति
सौशील्यसौकुमार्यादिगुणसंपन्ने, ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातै-
स्तवाङ्गं स्पृष्टं भवेद्यदि किलेति संभावितमेतदिति बुद्ध्येत्यर्थः ॥
“वार्तासंभाव्ययोः किल" इत्यमरः ॥ मयालिङ्ग्यन्त आश्लिष्यन्ते ॥
अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्ग्यन्त इत्यभिधानं
यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्त -
प्रलापीत्युपेक्षणीयः ॥
 
[^2]संक्षिप्येत [^3]क्षण इव [^4]कथं दीर्घयामा त्रियामा
सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् ।
इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे
गाढोष्माभिः कृतमशरणं [^5]त्वद्वियोगव्यथाभिः ॥ ४५ ॥
 
संक्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विर-
हवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः ॥ " आद्यन्तयो-
रर्धयामयोर्दिनव्यवहारात्त्रियामा" इति क्षीरस्वामी ॥ क्षण इव कथं
 
[^1] एतत्. [^2] संक्षिप्यैवम्. [^3] क्षणम् [^4] मया [^5] तद्वियोग.