This page has been fully proofread once and needs a second look.

रञ्जकद्रव्याणि ॥ "चित्रादिरञ्जकद्रव्ये लाक्षादौ प्रणयेच्छयोः । सार-
ङ्गादौ च रागः स्यादारुण्ये रञ्जने पुमान्" इति शब्दार्णवे ॥ तैर्धा-
तुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं माम् । मत्प्र-
तिकृतिमित्यर्थः । ते तव । चित्रगताय इत्यर्थः । चरणपतितं कर्तुं
तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैर-
स्रैरश्रुभिः कर्तृभिः ॥ " अस्रमश्रुणि शोणिते” इति विश्वः ॥ मे
दृष्टिरालुप्यते । आव्रियत इत्यर्थः । ततो दृष्टिप्रतिवन्धनाल्लेखनं प्रतिब
ध्यत इति भावः । किंबहुना क्रूरो घातुकः ॥ "नृशंसो घातुकः
क्रूरः" इत्यमरः ॥ कृतान्तो दैवम् ॥ " कृतान्तो यमसिद्धान्तदै -
वाकुशलकर्मसु " इत्यमरः ॥ तस्मिन्नपि चित्रेऽपि ॥ नावावयोः ॥ “यु-
ष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोर्वांनावौ" इति नावादेशः ॥ संगमं
सहवासं न सहते । संगमलेखनमप्यावयोरसहमानं दैवमावयोः सङ्गं न
सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ॥
 
अधुना स्वप्नदर्शनमाह –
 
मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो-
र्लब्धायास्ते कथमपि [^1]मया स्वप्नसंदर्शनेषु ।
पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां
मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ४३ ॥
 
मामिति ॥ सुप्तस्य विज्ञानं स्वप्नः ॥ " स्वप्नः सुप्तस्य विज्ञानम् "
इति विश्वः ॥ संदर्शनं संवित् । दर्शनं समये शास्त्रे दृष्टौ स्वप्ने -
sक्षिण संविदि ॥” इति शब्दार्णवे ॥ स्वप्नसंदर्शनानि स्वप्नज्ञानानि ॥
चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमपि
महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ॥ ते तव
निर्दयालेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥
“षष्ठी हेतुप्रयोगे” इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसा-
रितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रु-
लेशा बाष्पबिन्दवस्तरुकिसलयेषु । अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्व-
न्यते । बहुशो न पतन्तीति न । किंतु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वय-
 
[^1] निशि.