This page has been fully proofread once and needs a second look.

लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली" इत्यमरः ॥ अङ्गं शरीर-
मुत्पश्यामि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकित -
हरिणीनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रच्छायां मुखकान्तिं
तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुषु स्व-
ल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादाने नानुक्तगुणग्रहो
दोषः । भ्रूसाम्यनिर्वाहाय महत्त्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं
रसरत्नाकरे – “ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशे-
षणादिदोषस्य नास्त्यनुक्तगुणग्रहः ॥” इति ॥ भ्रूविलासान् "भ्रूपता-
काः" इति पाठे भ्रुवः पताका इवेत्युपमितसमासः ॥ उत्पश्यामीति
सर्वत्र संबध्यते ॥ तथापि नास्ति मनोनिर्वृतिरित्याशयेनाह ह-
न्तेति ॥ हन्त विषादे ॥ " हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषा-
दयोः" इत्यमरः । हे चण्डि कोपने ॥ "चण्डस्त्वत्यन्तकोपनः "
इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्य-
मिति भावः । क्वचिदपि कस्मिन्नप्येकस्मिन्वस्तुनि ते तव सादृश्यं
नास्ति । अतोन निर्वृणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति
व्यज्यते ॥
 
संप्रति प्रतिकृतिदर्शनमाह -
 
त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया-
मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् ।
अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे
क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्तः ॥ ४२ ॥
 
त्वामिति ॥ हे प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्था-
युक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ "धातुर्वा -
तादिशब्दादिगैरिकादिष्वजादिषु" इति यादवः ॥ त एव रागा
 
४२ - ४३ श्लोकयोर्मध्ये क्षेपकोऽयं दृश्यते –
 
"धारासिक्तस्थलसुरभिणस्त्वन्मुखस्यास्य बाले
दूरीभूतं प्रतनुमपि मां पञ्चबाणः क्षिणोति ।
धर्मान्तेऽस्मिन्विगणय कथं वासराणि व्रजेयु-
र्दिक्संसक्तप्रविततघनव्यस्तसूर्यातपानि ॥ "