2022-10-12 13:43:38 by suhasm
This page has been fully proofread once and needs a second look.
संप्रति स्वावस्थानिवेदनाय प्रस्तौति -
शब्दाख्येयं यदपि किल ते [^1]यः सखीनां पुरस्ता-
त्कर्णे लोलः कथयितुम[^2]भूदाननस्पर्शलोभात् ।
सोऽतिक्रान्तः श्रवणविषयं [^3]लोचनाभ्याम[^4]दृष्ट-
स्त्वामुत्कण्ठा[^5]विरचितपदं [^6]मन्मुखेनेदमाह ॥ ४० ॥
शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीनां पुरस्तादग्र
आननस्पर्शे त्वन्मुखसंपर्के लोभाद्गार्ध्यात् । अधरपानलोभादित्यर्थः ।
शब्दाख्येयं शब्देन रवेणाख्येयमुच्चैर्वाच्यमपि यत्तत् । वचनमपीति
शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ "लोलुपो लोलुभो
लोलो लालसो लम्पटोऽपि च " इति यादवः ॥ श्रवणविषयं कर्णप-
थमतिक्रान्तः । तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्रष्टुं श्रोतुं च न
शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि
सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् ॥ “पदं शब्दे च
वाक्ये च” इति विश्वः ॥ इदं वक्ष्यमाणं "श्यामास्वङ्गम्" इत्यादिकं
मन्मुखेनाह । मन्मुखेन स एव ब्रूत इत्यर्थः ॥
सादृश्यप्रतिकृतिस्वप्नदर्शनतदङ्गस्पृष्टस्पर्शाख्यानि चत्वारि विरहिणां
विनोदस्थानानि । तथा चोक्तं गुणपताकायाम् – “वियोगावस्थासु
प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तद-
ङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि
गदितः" इति । तत्र सदृशवस्तुदर्शनमाह -
श्यामास्वङ्गं चकितहरिणी[^7]प्रेक्षणे [^8]दृष्टिपातं
[^9]वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् ।
उत्पश्यामि प्रतनुषु नदीवीथिषु भ्रूविलासा-
न्हन्तै[^10]कस्मिन्क्वचिदपि न ते [^11]चण्डि सादृश्यमस्ति ॥ ४१ ॥
श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ "श्यामा तु महिलाह्वया ।
[^1] तत्सखीनाम्. [^2] अगात् [^3] लोचनानाम् [^4] अदृश्यः; अगम्यः,
[^5] विरहित [^6] संमुखेन, [^7] प्रेक्षिते. [^8] दृष्टिपातान्. [^9] वक्त्रच्छायम्;
गण्डच्छायम्. [^10] एकस्थम्. [^11] भीरु.