2022-10-12 13:43:24 by suhasm
This page has been fully proofread once and needs a second look.
यथाह भारविः- “सा लक्ष्मीरुपकुरुते यया परेषाम्” इति । तथा
श्रीहर्षश्च – “साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतू-
हलि कस्य मनश्चरितं च महात्मनां श्रोतुम् ॥” इति । तथा च "क्व-
चित्क्वचिद्द्वितीयादर्शनात्सर्वस्य तथा" इति नाथवचनमनाथवचन-
मेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः ॥ किमित्याह – हे
अबले, तव सहचरो भर्ता रामगिरेश्चित्रकूटस्याश्रमेषु तिष्ठतीति रामगि -
र्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह वि-
युक्तो वियोगं प्राप्तो दुःखी संस्त्वां कुशलं पृच्छति ॥ दुह्यादित्वा-
त्पृच्छतेर्द्विकर्मकत्वम् ॥ तथाहि । सुलभविपदामयत्नसिद्धविपत्तीनां
प्राणिनामेतदेव कुशलमेव पूर्वाभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् ॥
"कृत्याश्च" इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥
अङ्गेनाङ्गं [^1]प्रतनु तनुना गाढतप्तेन तप्तं
सास्रेणाश्रु[^2]द्रुतमविरतोत्कण्ठमुत्कण्ठितेन ।
[^3]उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती
संकल्पै[^4]स्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ ३९ ॥
अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं शक्यत
इत्याह । वैरिणा विरोधिना विधिना दैवेन रुद्धमार्गः प्रतिबद्धवर्त्मा स
ते सहचरः तनुना कृशेन गाढतप्तेनात्यन्तसंतप्तेन सास्रेण साश्रुणा ।
उत्कण्ठा वेदनास्य जातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ " तदस्य संजात -
म् - " इत्यादिनेतच्प्रत्ययः । उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरम-
धिकमुच्छ्वसितीति समधिकतरोच्छ्वासि तेन ॥ दीर्घनिःश्वासिनेत्यर्थः ॥
ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण प्रतनुं कृशं तप्तं वियोगदुःखेन
संतप्तमश्रुद्रुतमश्रुक्लिन्नम् ॥ “अश्रु नेत्राम्बु रोदनं चास्रमस्रु च” -
इत्यमरः ॥ अविरतोत्कण्ठमविच्छिन्नवेदनमुष्णोच्छ्वासं तीव्रनिःश्वासम्
" तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्" इति हलायुधः ॥
अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः संकल्पैर्मनोरथैर्विशति । एकीभवती -
त्यर्थः ॥ अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थ-
त्वमुक्तम् ॥
[^1] सुतनु तनु च. [^2] द्रवम् [^3] दीर्घोच्छ्वासम् [^4] ते.