This page has been fully proofread once and needs a second look.

भर्तृसख्यादिज्ञापनस्य फलमाह
 
इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा
त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य [^1]संभाव्य चै[^2]वम् ।
श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां
कान्तोदन्तः सुहृदु[^3]पनतः संगमात्किंचिदूनः ॥ ३७ ॥
 
इतीति ॥ इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सी-
तेव सा मत्प्रिया । उन्मुख्युत्कण्ठ्यौत्सुक्येनोच्छ्वसितहृदया विकसित-
चित्ता सती त्वां वीक्ष्य संभाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञाप-
नात्परं सर्वं श्रोतव्यम् । अवहिताप्रमत्ता सती श्रोष्यत्येव ॥ अत्र
सीताहनुमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसंपत्तिश्च व्य-
ज्यते । तद्गुणास्तु रसाकरे – “ब्रह्मचारी बली धीरो मायावी मानव-
र्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥” इति ॥ ननु
वार्तामात्रश्रवणादस्याः को लाभ इत्याशङ्क्यार्थान्तरमुपन्यस्यति – हे
सौम्य साधो, सीमन्तिनीनां वधूनाम् ॥ “नारी सीमन्तिनी वधूः "
इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्राप्तः सन् । सुहृत्पदं विप्रलम्भ-
शङ्कानिवारणार्थम् । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ " वार्ता
प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्" इत्यमरः ॥ संगमात्कान्तसंपर्कात्किं-
चिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥
 
संप्रति संदिशति-
 
[^4]तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं
[^5]ब्रूयादे[^6]वं तव सहचरो रामगिर्याश्रमस्थः ।
अव्यापन्नः कुशलमबले पृच्छति त्वां [^7]वियुक्तः
[^8]पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ ३८ ॥
 
तामिति ॥ हे आयुष्मन् ॥ प्रशंसायां मतुप् ॥ परोपकारश्लाघ्यजीवि-
तेत्यर्थः ॥ मम वचनं प्रार्थनावचनं तस्माच्चात्मनः स्वस्योपकर्तुं च परोप-
कारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्यो-
पकरोतीत्यादिवत्संबन्धमात्रविवक्षायामात्मन इति षष्ठी न विरुध्यते ।
 
[^1] संभाष्य. [^2] एव. [^3] उपगतः. [^4] आयुष्मान्. [^5] ब्रूयाः [^6] एकम्.
[^7] वियुक्ताम्; नियुक्तः [^8] पूर्वाश्वास्यं सुलभविपदां प्राणिनामेतदेव; भूतानां हि
क्षयिषु करणेष्वाद्यमाश्वास्यमेतत्.