This page has been fully proofread once and needs a second look.

ताम् । अन्यच्च पुनरुच्छ्वसिताम् ॥ श्वसेः कर्तरि क्तः । “उगितश्च"
इति चकारादित्प्रतिषेधः (?) ॥ एतेनास्याः कुसुमसौकुमार्यं गम्यते ॥ त्वत्स-
नाथे त्वत्सहिते ॥ “सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि" इति
शब्दार्णवे ॥ गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां
मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः । विद्युद्गर्भोऽन्तः-
स्थो यस्य स विद्युद्गर्भः । अन्तर्लीनविद्युत्क इत्यर्थः ॥ "गर्भोऽपव-
रकेऽन्तस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके" इति शब्दार्णवे ॥ दृष्टिप्रतिवातेन
वक्तुर्मुखावलोकनप्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो
धैर्यविशिष्टश्च सन् । अन्यथाशीलत्वादिनैतदनाश्वासनप्रसंगादिति भावः ।
स्तनितवचनैः स्तनितान्येव वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥
विध्यर्थे लिङ् ॥ ‘‘प्रोपाभ्यां समर्थाभ्याम्" इत्यात्मनेपदम् ॥
 
संप्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति-
 
भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं
[^1]तत्संदेशैर्हृदयनिहितैरागतं त्वत्समीपम् ।
यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां
[^2]मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ ३६ ॥
 
भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभर्तृका । हे
अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्तु-
स्तव पत्युः प्रियं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्था-
पितैस्तत्संदेशैस्तस्य भर्तुः संदेशैस्त्वत्समीपमागतम् । भर्तुः संदेशकथना-
र्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ता -
हरः किंतु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्द्रस्निग्धैः
स्निग्धगम्भीरैर्ध्वनिभिर्गर्जितैः करणैः अबलानां स्त्रीणां वेणयस्तासां
मोक्षे मोचन उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां
प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्घांस्त्वरयति । पान्थोप-
कारिणो मे किमु वक्तव्यं सुहृदुपकारित्वमिति भावः ॥
 
[^1] तत्संदेशान्मनसि निहितात्; त्वत्संदेशान्मनसि निहितात्; तत्संदेशाद्धृदय-
निहितात्. [^2] मन्त्र; सान्द्र.