2022-09-12 01:15:40 by suhasm
This page has been fully proofread once and needs a second look.
स्याषाढी ॥ "नक्षेण युक्तः कालः" इत्यण् । " टिड्ढाणञ्- " इत्या -
दिना ङीप् ॥ साषाढ्यस्मिन्पौर्णमासीत्याषाढो मासः ॥ "सास्मिन्पौर्ण-
मासीति संज्ञायाम्” इत्यण् ॥ तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्त-
कूटम् । वप्रक्रीडा उत्खातकेलयः ॥ " उत्खातकेलिः शृङ्गाद्यैर्वप्रक्रीडा
निगद्यते” इति शब्दार्णवे । तासु परिणतस्तिर्यग्दन्तप्रहारः ॥ "तिर्य-
ग्दन्तप्रहारस्तु गजः परिणतो मतः" इति हलायुधः ॥ स चासौ गजश्च
तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गजप्रेक्षणीयमित्यत्रेवलो-
पाल्लुप्तोपमा ॥ केचित् "आषाढस्य प्रथमदिवसे" इत्यत्र "प्रत्या-
सन्ने नभसि " इति वक्ष्यमाणनभोमासप्रत्यासत्त्यर्थं "प्रशमदिवसे"
इति पाठं कल्पयन्ति तदसंगतम् । प्रथमातिरेके कारणाभावात् ।
नभोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मा-
सप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगा-
भावेनाविवक्षितत्वात् । विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्र-
मेण मेघदर्शनकल्पनायां प्रमाणाभावेन तदसंभवात् । प्रत्युता-
स्मत्पक्ष एव कुशलसंदेशस्य भाव्यनर्थप्रतीकारार्थस्य पुरत एवानुमा-
नमुक्तं भवतीत्युपयोगसिद्धिः ॥ ननून्मत्तस्य नायं विवेक इति चेन्न ।
उन्मत्तस्य नानर्थस्य प्रतीकारार्थं प्रवृत्तिरपीति संदेश एव मा भूत् । तथा
च काव्यारम्भ एवाप्रसिद्धः स्यादित्यहो मूलच्छेदी पाण्डित्यप्रकर्षः ॥
कथं तर्हि “शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ" इत्यादिना
भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः, दशदिवसा-
धिक्यादिति चेत्-स्वपक्षेऽपि कथं सा, विंशतिदिवसैर्न्यूनत्वादिति संतो-
ष्टव्यम् । तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं “प्रथमदिवसे” इति ॥
तस्य स्थित्वा कथमपि पुरः कौ[^1]तुकाधानहेतो-
रन्तर्बाष्पश्चिरमनुचरो राजराजस्य दध्यौ ।
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३ ॥
तस्येति ॥ राजानो यक्षाः ॥ “राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रिय-
[^1] केतकाधान.