This page has been fully proofread once and needs a second look.

श्यमेष्यतीति शङ्के तर्कयामि ॥ ( तुल्यार्थैरतुलोपमाभ्यां तृतीया ) इति
कृद्योगे तृतीया (?) ॥
 
वामश्चा[^1]स्याः कररुहपदैर्मुच्यमानो मदीयै-
र्मुक्ताजालं [^2]चिरपरिचितं त्याजितो दैवगत्या ।
संभोगान्ते मम समुचितो हस्त[^3]संवाहनानां
यास्यत्यूरुः [^4]सरसकदलीस्तम्भगौरश्चलत्वम् ॥ ३३ ॥
 
वाम इति ॥ मदीयैः कररुहपदैर्नखपदैः ॥ "पुनर्भवः कररुहो नखो-
ऽस्त्री नखरोऽस्त्रियाम्" इत्यमरः ॥ मुच्यमानः परिहीयमाणः । न-
खाङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये - "कण्ठकुक्षि-
कुचपार्श्वभुजोरःश्रोणिसक्थिषु नखास्पदमाहुः" इति ॥ चिरपरिचितं
चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन
त्याजितः । संप्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयर्थ्या-
दिति भावः ॥ त्यजतेर्ण्यन्तात्कर्मकर्तरि क्तः । "द्विकर्मसु पचादीनां
चोपसंख्यानमिष्यते" इति पचादित्वाद्द्विकर्मकत्वम् ॥ संभोगान्ते
मम हस्तसंवाहनानां हस्तेन मर्दनानाम् ॥ "संवाहनं मर्दनं स्यात् "
इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसार्द्रः परिपक्वो न शुष्कश्च
स एव विवक्षितः । तत्रैव पाण्डिमसंभवात् । स चासौ कदलीस्तम्भश्च
स इव गौरः पाण्डुरः ॥ “गौरः करीरे सिद्धार्थे शुक्ले पीतेऽरुणेऽपि
च" इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं
स्पन्दनं यास्यति प्राप्स्यते ॥ "ऊरोः स्पन्दाद्रतिं विद्यादूर्वोः प्राप्तिं
सुवाससः " इति निमित्तनिदाने ॥
 
तस्मिन्काले जलद यदि सा लब्धनिद्रासुखा स्या-
[^5]दन्वास्यैनां स्तनितविमुखो याममात्रं [^6]सहस्व ।
मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथंचि -
त्सद्यःकण्ठच्युतभुजलताग्रन्थि गाढोपगूढम् ॥ ३४ ॥
 
तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया
 
[^1] वा. [^2] चिरविरचितम्; नवपरिचितम् [^3] संवाहनस्य. [^4] कनक. [^5] अन्वा-
सीनः; तत्रासीनः [^6] सहेथाः.