This page has been fully proofread once and needs a second look.

जान इति ॥ हे मेघ, तव सख्या मनो मयि संभृतस्नेहं संचिता-
नुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखा-
तिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्क-
यामि ॥ ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं
तत्राह — वाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगंमन्यः ॥
"आत्ममाने खश्च" इति खश्प्रत्ययः । “अरुर्दिषद् - " इत्यादिना
मुमागमः ॥ तस्य भावः सुभगंमन्यभावः सुभगमानित्वं मां वाचालं
बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥
" स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्" इत्यमरः ॥ “आलजा-
टचौ बहुभाषिणि" इत्यालच्प्रत्ययः ॥ किंतु हे भ्रातः, मयोक्तं यत्
" आधिक्षामाम्" इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्य-
क्षम् । भविष्यतीति शेषः ॥
 
रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं
प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् ।
त्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या
मीनक्षो[^1]भाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ३२ ॥
 
रुद्धेति ॥ अलकै रुद्धा अपाङ्गयोः प्रसरा यस्य तत्तथोक्तम् ।
अञ्जनेन स्नेहः स्नैग्ध्यं तेन शून्यम् । स्निग्धाञ्जनरहितमित्यर्थः । अपि
च किंच मधुनो मद्यस्य प्रत्यादेशान्निराकरणात् । परित्यागादित्यर्थः ॥
“प्रत्यादेशो निराकृतिः” इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रूभङ्गो
येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति
भावः । त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेषः । उपर्यू-
र्ध्वभागे स्पन्दते स्फुरतीत्युपरिस्पन्दि । तथा च निमित्तनिदाने – “स्प-
न्दान्मूर्ध्नि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोरूर्ध्वमपाङ्गे
हानिमादिशेत् ॥” इति ॥ मृगाक्ष्यास्त्वत्सख्या नयनम् । वाममिति
शेषः । “वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवा-
दिपूजायां स्पन्देऽलंकरणेऽपि च ॥” इति स्त्रीणां वामभागप्राशस्त्यात् ।
मीनक्षोभान्मीनचलनाच्चलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृ-
 
[^1] क्षोभाकुल.