This page has been fully proofread once and needs a second look.

क्तार्थत्वादप्रयोगः । “प्रयोगे चापौनरुक्त्यम्" इत्यालंकारिकाः ॥ प्रार्थ-
नायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्था-
नाम् । दुर्लभामित्यर्थः । निद्रामाकाङ्क्षन्तीम् । स्नेहातुरत्वादिति भावः ॥
अत्राश्रुविसर्जनेन लज्जात्यागो व्यज्यते ॥
 
आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा
शापस्यान्ते विगलितशुचा [^1]तां मयो[^2]द्वेष्टनीयाम् ।
स्पर्शक्लिष्टाम[^3]यमितनखेनासकृत्सारयन्तीं
गण्डाभोगात्कठिन[^4]विषमामेकवेणीं करेण ॥ २९ ॥
 
आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या
शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वे-
ष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूलकेशेषु सव्यथामि-
त्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् ॥ खञ्जकुब्जादि-
वदन्यतरस्य प्राधान्यविवक्षया " विशेषणं विशेष्येण बहुलम्"
इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ “पूर्वकाल — " इत्यादिना
तत्पुरुषः ॥ तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्याः तेन
करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारय-
न्तीम् । “तां पश्य” इति पूर्वेण संबन्धः । असकृत्सारणाच्चित्तविभ्र-
मदशा सूचिता ॥
 
सा संन्यस्ताभरणमबला [^5]पेशलं धारयन्ती
शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् ।
त्वामप्य[^6]स्रं [^7]नवजलमयं मोचयिष्यत्यवश्यं
प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ३० ॥
 
सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणम-
सकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ " प्रकारे गुणवचनस्य"
इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारय-
न्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्च्छावस्था सूच्यते ॥ सा त्व-
 
[^1] या [^2] उद्वेष्टनीया; उन्मोचनीया [^3] अपमित [^4] विषमात् [^5] पेल-
वम्; कोमलम् [^6] अश्रुम् [^7] जललव; जलकण.