2022-10-09 13:01:46 by suhasm
This page has been fully proofread once and needs a second look.
हत्त्वेन प्रतीयमानामुष्णैरश्रुभिर्यापयन्तीम् ॥ यातेर्ण्यन्ताच्छतृप्रत्ययः ।।
"अर्तिह्री - " इत्यादिना पुगागमः ॥ स एव कालः सुखिनामल्पः
प्रतीयते । दुःखिनां तु विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥
पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टा-
न्पूर्वप्रीत्या गतमभिमुखं संनिवृत्तं तथैव ।
चक्षुः खेदात्स[^1]लिलगुरुभिः पक्ष्मभिश्छादयन्तीं
साभ्रेऽह्नीव स्थलकमलिनीं न प्रबुद्धां न सुप्ताम् ॥ २७ ॥
पादानिति ॥ जालमार्गप्रविष्टान्गवाक्षविवरगतानमृतशिशिरानिन्दोः
पादान्रश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन पूर्ववदानन्दकरा भविष्यन्तीति बुद्ध्येति
भावः । अभिमुखं यथा तथा गतं तथैव संनिवृत्तं यथागतं तथैव
प्रतिनिवृत्तम् । तदा तेषामतीव दुःसहत्वादिति भावः । चक्षुर्दृष्टिं
खेदात्सलिलगुरुभिरश्रुदुर्भरैः पक्ष्मभिश्छादयन्तीम् । अतएव साभ्रे दुर्दि-
नेऽह्नि दिवसे न प्रबुद्धां मेघावरणादविकसितां न सुप्तामहरित्यमुकुलि-
ताम् ॥ उभयत्रापि नञर्थस्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकम-
लिनीमिव स्थिताम् । एतेन विषयद्वेषाख्या षष्ठी दशा सूचिता ॥
[^2]निःश्वासेनाधरकिसलयक्लेशिना विक्षिपन्तीं
शुद्धस्नानात्परुषमलकं नूनमागण्ड[^3]लम्बम् ।
[^4]मत्संभोगः [^5]कथमुपनयेत्स्वप्नजोऽपीति निद्रा-
माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ २८ ॥
निःश्वासेति । शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्शं नून-
मागण्डलम्बम् ॥ सुप्सुपेति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जा-
तावेकवचनम् ॥ अधरकिसलयं क्लेशयति क्लिश्नातीति वा तेन तथो-
क्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्क्लिश्नातेरण्यन्ताद्वा ताच्छील्ये
णिनिः ॥ निःश्वासेन विक्षिपन्तीं चालयन्तीं । तथा स्वप्नजोऽपि स्वप्ना-
वस्थाजन्योऽपि । साक्षात्संभोगासंभवादिति भावः । मत्संभोगः कथं
केनापि प्रकारेणोपनयेत् । आगच्छेदित्याशयेनेति शेषः ॥ इतिनैवो-
[^1] सजला. [^2] विश्वासेन. [^3] लम्बि. [^4] संयोगः. [^5] कथमपि भवेत्; क्षण-
मपि भवेत्.