This page has been fully proofread once and needs a second look.

मरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । तां त्वत्सखीं मत्संदेशै-
र्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥
" सखी धात्री च पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनसुखो-
पायैर्वियोगिनीम् ॥” इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥
अनेन जागरावस्थोक्ता ॥
 
पुनस्तामेव विशिनष्टि "आधिक्षामाम्" इत्यादिभिश्चतुर्भिः -
 
आधिक्षामां विरहशयने [^1]संनिषण्णैकपार्श्वां
प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः ।
नीता रात्रिः [^2]क्षण इव मया सार्धमिच्छारतैर्या
तामेवोष्णैर्विरह[^3]महतीमश्रुभिर्यापयन्तीम् ॥ २६ ॥
 
आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥ " पुंस्या-
धिर्मानसी व्यथा" इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ “क्षायो मः " इति
निष्ठातकारस्य मकारः ॥ विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित
इत्यर्थः । संनिषण्णमेकं पार्श्वं यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या
दिशो मूले । उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतना-
र्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां
हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया
कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥
क्षण इव नीता यापिता तां तज्जातीयामेव रात्रिं विरहेण महतीं म-
 
 
२५-२६ श्लोकयोर्मध्ये प्रक्षिप्ताविमौ दृश्येते-
 
“स्निग्धाः सख्यः कथमपि दिवा तां न मोक्ष्यन्ति तन्वी-
मेकप्रख्या भवति हि जगत्यङ्गनानां प्रवृत्तिः ।
स त्वं रात्रौ जलद शयनासन्नवातायनस्थः
कान्तां सुप्ते सति परिजने वीतनिद्रामुपेयाः ॥
 
अन्वेष्टव्यामवनिशयने संनिकीर्णैकपार्श्वां
तत्पर्यङ्क(न्त)प्रगलित (न)वैश्छिन्नहारैरिवास्रैः ।
भूयो भूयः कठिनविषमां सादयन्तीं कपोला-
दामोक्तव्यामयमितनखेनैकवेणीं करेण ॥ "
 
[^1] संनिकीर्णैक; विप्रकीर्णैक. [^2] क्षणम्. [^3] जनितैः.