2022-10-09 00:00:53 by suhasm
This page has been fully proofread once and needs a second look.
[^1]मत्सङ्गं वा हृदयनिहिता[^2]रम्भमा[^3]स्वादयन्ती
प्रायेणैते रमण[^4]विरहेष्वङ्गनानां विनोदाः ॥ २४ ॥
शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापितस्य तत आ-
रभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्तपुष्पैः ॥
देहली द्वारस्याधारदारू ॥ "गृहावग्रहणी देहली" इत्यमरः ॥ तत्र
दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको
द्वावित्यादिसंख्यानेन भुवि भूतले विन्यस्यन्ती वा । पुष्पविन्यासै-
र्मासान्गणयन्ती वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि संकल्पित
आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भाश्चुम्ब-
नादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्संभोगरतिमास्वादयन्ती वा ।
“आलोके ते निपतति" इति पूर्वेण संबन्धः ॥ ननु कथमयं निश्चय
इत्याशङ्कामर्थान्तरन्यासेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रम-
णविरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः । एतेन संकल्पाव-
स्थोक्ता । तदुक्तम् – “संकल्पो नाथविषये मनोरथ उदाहृतः" इति ॥
त्रिभिः कुलकम् ॥
सव्यापारामहनि न तथा [^5]पीडयेन्म[^6]द्वियोगः
शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते ।
मत्संदेशैः सुखयितुमलं पश्य साध्वीं निशीथे
तामुन्निद्रामवनि[^7]शयनां सौधवातायनस्थः ॥ २५ ॥
सव्यापारामिति ॥ हे सखे, अहनि दिवसे सव्यापारां पूर्वोक्तब-
लिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोगो मद्विरहस्तथा
तेन प्रकारेण ॥ " प्रकारवचने थाल्" इति थाल्प्रत्ययः ॥ न पीड-
येत् । यथा रात्राविति शेषः ॥ किंतु रात्रौ निर्विनोदां निर्व्यापारां ते
सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥
“शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र
उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं
स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ “साध्वी पतिव्रता" इत्य
[^1] मत्संभोगम्; संभोगं वा; संयोगं वा. [^2] विहिता. [^3] आसादयन्ती.
[^4] विरहे हि. [^5] खेदयेत्. [^6] विप्रयोगः. [^7] शयनासन्न; शयानसांद्म.