2022-10-08 23:57:53 by suhasm
This page has been fully proofread once and needs a second look.
"उपमायां विकल्पे वा” इत्यमरः ॥ ते तवालोके दृष्टिपथे पुरा नि-
पतति । सद्यो निपतिष्यतीत्यर्थः ॥ " स्यात्प्रबन्धे पुरातीते निकटागा-
मिके पुरा” इत्यमरः ॥ " यावत्पुरानिपातयोर्लट् ॥” इति लट् ॥
उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां
मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा ।
[^1]तन्त्रीमार्द्रां नयनसलिलैः सारयित्वा कथंचि-
द्भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ २३ ॥
उत्सङ्गेति ॥ हे सौम्य साधो, मलिनवसने । “प्रोषिते मलिना
कृशा" इति शास्त्रादित्यर्थः ॥ उत्सङ्गं ऊरौ वीणां निक्षिप्य । मम गोत्रं
नामाङ्कश्चिह्नं यस्मिंस्तन्मद्गोत्राङ्कं मन्नामाङ्कं यथा तथा ॥ " गोत्रं नाम्नि
कुलेsपि च " इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं
गानार्हं प्रबन्धादि ॥ "गीतम्" इति पाठे स एवार्थः ॥ उद्गातुमुच्चै-
र्गातुं कामो यस्याः सा ॥ "तुं काममनसोरपि " इति मकारलोपः ॥
देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तम् – “षड्जमध्यम-
नामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देव-
योनिभिः ॥” इति ॥ तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभि-
रार्द्रां तन्त्रीं कथंचित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण
प्रमृज्यान्यथा क्वणनासंभवादिति भावः । भूयो भूयः पुनः पुनः स्वयमा-
त्मना कृतामपि । विस्मरणानर्हामपीत्यर्थः । मूर्च्छनां स्वरारोहावरो-
हक्रमम् । “स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि "
इति संगीतरत्नाकरे ॥ विस्मरन्ती वा । “आलोके ते निपतति" इति
पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥
तथा च रसरत्नाकरे – “वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः ।
साक्षात्कारोऽथवा मूर्च्छा दशधा जायते तथा ॥” इति ॥ मत्सादृश्यमि
त्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥
शेषान्मासान्वि[^2]रहदिवस[^3]स्थापितस्यावधेर्वा
विन्यस्यन्ती भुवि गणनया देहली[^4]दत्तपुष्पैः ।
[^1] तन्त्रीराद्रा [^2] गमन. [^3] प्रस्थितस्य. [^4] मुक्त.