This page has been fully proofread once and needs a second look.

स्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं
हस्तन्यस्तम् । एतेन चिन्ता व्यज्यते ॥ लम्बालकत्वात्संस्काराभावाल्ल-
म्बमानकुन्तलत्वादसकलव्यक्त्यसंपूर्णाभिव्यक्ति तस्याः प्रियाया मुखं
त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेः
क्षीणकान्तेरिन्दोर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के ॥ "नूनं
तर्केऽर्थनिश्चये” इत्यमरः ॥ पूर्ववत्तथापि न भ्रमितव्यमिति भावः ॥
सर्वविरहिणीसाधारणानि लक्षणानि संभावनयोत्प्रेक्ष्याणीत्याह
"आलोके" इत्यादिभिस्त्रिभिः -
 
आलोके ते निपतति [^1]पुरा सा बलिव्याकुला वा
मत्सादृश्यं विरह[^2]तनु वा भावगम्यं लिखन्ती ।
पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां
कच्चिद्भर्तुः स्मरसि [^3]रसिके त्वं हि तस्य प्रियेति ॥ २२ ॥
 
आलोकेति ॥ हे मेघ, सा मप्रिया । बलिषु नित्येषु प्रोषितागमना-
र्थेषु च देवताराधनेषु व्याकुला व्यापता वा । विरहेण तनु कृशं भावग-
म्यम् । तत्कार्श्यस्यादृष्टचरत्वात्संप्रति संभावनयोत्प्रेक्ष्यमित्यर्थः । मत्सा-
दृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्र-
सिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथाले-
ख्यत्वासंभवात् । अक्षय्यकोशे “आलेख्येऽपि च सादृश्यम्" इत्यभिधा-
नात् ॥ लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहि-
णीविनोदोपायत्वादिति भावः ॥ एतच्च कामशास्त्रसंवादेन सम्यग्विवे-
चितमस्माभी रघुवंशसंजीविन्याम् “सादृश्यप्रतिकृतिदर्शनैः प्रियायाः "
इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अतएव पञ्जरस्थाम् । हिंस्रेभ्यः
कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके, भर्तुः
स्वामिनः स्मरसि कच्चित् ॥ "कच्चित्कामप्रवेदने" इत्यमरः ॥ भर्तारं
स्मरसि किमित्यर्थः ॥ “अधीगर्थदयेशां कर्मणि" इति कर्मणि षष्ठी ॥
स्मरणे कारणमाह — हि यस्मात्कारणात्त्वं तस्य भर्तुः । प्रीणातीति प्रि-
या ॥ "इगुपधज्ञाप्रीकिरः क " इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वा-
त्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छन्ती वा ॥ वाशब्दो विकल्पे ॥
 
[^1] पुरे. [^2] तनुना [^3] निभृते.