2022-09-12 01:15:23 by suhasm
This page has been fully proofread once and needs a second look.
दुर्भरे" इति शब्दार्णवे ॥ वर्षभोग्येण संवत्सरभोग्येण ॥ "कालाध्वनो-
रत्यन्तसंयोगे" इति द्वितीया । “अत्यन्तसंयोगे च" इति समासः ।
"कुमति च" इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तंगमितो महिमा
सामर्थ्यं यस्य सोऽस्तंगमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् ॥ तस्य
" द्वितीया - " इति योगविभागात्समासः ॥ कश्चिदनिर्दिष्टनामा यक्षो
देवयोनिविशेषः ॥ “विद्याघराप्सरोयक्षरक्षोगन्धर्वकिंनराः । पिशाचो
गुह्यकः सिद्धो भूतोऽमी देवयोनयः" इत्यमरः ॥ जनकतनयायाः सीतायाः
स्नानैरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु । पावनेष्वित्यर्थः ॥
छायाप्रधानास्तरवश्छायातरवः ॥ शाकपार्थिवादित्वात्समासः ॥ स्निग्धाः
सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः ॥ " स्त्रि-
ग्धं तु मसृणे सान्द्रे " इति । “छायावृक्षो नमेरुः स्यात्" इति च श-
ब्दार्णवे ॥ रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ "वहिवस्यर्तिभ्यश्च”
इत्यौणादिकोऽतिप्रत्ययः ॥ चक्रे कृतवान् ॥ अत्र रसो विप्रल-
म्भाख्यः शृङ्गारः । तत्राप्युन्मादावस्था । अतएवैकत्रानवस्थानं सूचि -
तमाश्रमेष्विति बहुवचनेन ॥ सीतां प्रति रामस्य हनुमत्संदेशं मनसि
निधाय मेघसंदेशं कविः कृतवानित्याहुः ॥ अत्र काव्ये सर्वत्र मन्दा-
क्रान्तावृत्तम् । तदुक्तम्– “मन्दाक्रान्ता जलधिषडगैर्म्भौ नतौ ताद्गुरू
चेत्" इति ॥
तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी
नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः ।
आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं
वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २ ॥
तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ता-
विरही । कनकस्य वलयः कटकम् । "कटकं वलयोऽस्त्रियाम्" इत्यमरः ॥
तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठ: कूर्पराधः प्रदेशो
यस्य स तथोक्तः ॥ “कक्षान्तरे प्रकोष्ठ : स्यात्प्रकोष्ठ : कूर्परादधः" इति
शाश्वतः ॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः । कति-
चिन्मासान् । अष्टौ मासानित्यर्थः । “शेषान्मासान्गमय चतुरः" इति
वक्ष्यमाणत्वात् ॥ नीत्वा यापयित्वा । अषाढानक्षत्रेण युक्ता पौर्णमा-