2022-10-03 13:37:58 by suhasm
This page has been fully proofread once and needs a second look.
गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बाला
जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २० ॥
तामिति ॥ सहचरे सहचारिणि । अनेन वियोगासहिष्णुत्वं व्य-
ज्यते । मयि दूरीभूते दूरस्थिते सति सहचरे चक्रवाके दूरीभूते सति
चक्रवाकीं चक्रवाकवधूमिव ॥ "जातेरस्त्रीविषयादयोपधात्" इति
ङीप् ॥ परिमितकथां परिमितवाचम् । एकामेकाकिनीं स्थितां ताम-
न्तर्भवनगतां मे द्वितीयं जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसी-
मवगच्छेरित्यर्थः । “तन्वी" इत्यादिपूर्वलक्षणैरिति शेषः ॥ लक्षणानां-
मन्यथाभावभ्रममाशङ्क्याह — गाढेति । गाढोत्कण्ठां प्रबलविरहवेद-
नाम् । “रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गा-
त्राणां तामुत्कण्ठां विदुर्बुधाः " ॥ इत्यभिधानात् ॥ बालां गुरुषु विरह-
महत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन
मथितां पद्मिनीं वा पद्मिनीमिव ॥ "इववद्वायथाशब्दौ " इति दण्डी ॥
अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहे-
णान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्य -
मिति भावः ॥
नूनं तस्याः प्रबलरुदितोच्छूननेत्रं [^1]प्रियाया
निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् ।
[^2]हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा-
दिन्दोर्दैन्यं [^3]त्वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ २१ ॥
नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् ॥ उ-
च्छूनेति श्वयतेः कर्तरि क्तः ॥ " ओदितश्च” इति निष्ठानत्वम् ।
"वचिस्वपि - " इत्यादिना संप्रसारणम् । “संप्रसारणाच्च" इति
पूर्वरूपत्वम् । “हलः” इति दीर्घः ॥ “च्छ्वोः शूडनुनासिके च" इत्यू -
ठादेशे कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपे-
क्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठादेशे (?) च्छ्वोरन्त्यत्वेन
विशेषणाच्चेति ॥ एतेन विषादो व्यज्यते । निःश्वासानामशिशिरतयान्त-
[^1] बहूनाम्. [^2] हस्ते न्यस्तम्. [^3] त्वदुपसरण.