2022-10-03 13:37:42 by suhasm
This page has been fully proofread once and needs a second look.
श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां
या तत्र [^1]स्याद्युवतिविषये सृष्टिराद्ये[^2]व धातुः ॥ १९ ॥
तन्वीति ॥ तन्वी कृशाङ्गी । न तु पीवरी ॥ "श्लक्ष्णं दभ्रं कृशं
तनु" इत्यमरः ॥ "वोतोगुणवचनात् इति ङीष् ॥ ॥ श्यामा युवतिः ॥
" श्यामा यौवनमध्यस्था" इत्युत्पलमालायाम् ॥ शिखराण्येषां सन्तीति
शिखरिणः कोटिमन्तः ॥ " शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु"
इति विश्वः ॥ शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या
भाग्यवत्त्वं पत्यायुष्करं च सूच्यते । तदुक्तं सामुद्रिके – “स्निग्धाः
समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां
पादे जगत्सर्वम् ॥ ताम्बूलरसरक्तेऽपि स्फुटभासः समोदयाः । दन्ताः
शिखरिणो यस्या दीर्घं जीवति तत्प्रियः ॥” इति ॥ पक्वं परिणतं बिम्बं
बिम्बिकाफलमिवाघरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी ॥ "शाकपा-
र्थिवादित्वान्मध्यमपदलोपी समासः" इति वामनः ॥ “नासिकोदरौष्ठ - "
इत्यादिना ङीष् ॥ मध्ये क्षामा । कृशोदरीत्यर्थः । चकितहरिण्याः
प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता ॥ एतेनास्याः पद्मि-
नीत्वं व्यज्यते । तदुक्तं रतिरहस्ये । पद्मिनीलक्षणप्रस्तावे – “चकितमृ-
गदृशाभे प्रान्तरक्ते च नेत्रे" इति ॥ निम्ननाभिर्गम्भीरनाभिः ॥ अनेन-
नारीणां नाभिगाम्भीर्यान्मदनातिरेक इति कामसूत्रार्थः सूच्यते ।
श्रोणीभारादलसगमना मन्दगामिनी । न तु जघनदोषात् ॥ स्तनाभ्यां
स्तोकनम्रेषदवनता । न तु वपुर्दोषात् ॥ युवतय एव विषयस्तस्मि-
न्युवतिविषये । युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथ-
मशिल्पमिव स्थितेत्युत्प्रेक्षा ॥ प्रथमनिर्मिता युवतिरियमेवेत्यर्थः ॥ प्रा-
येण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्माणसौष्ठवं दृ-
श्यत इत्याद्यविशेषणम् । तथा चास्मिन्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं
रमणीरत्नेष्वस्तीति भावः । तदेवंभूता या स्त्री तत्रान्तर्भवने स्यात् ।
तत्र निवसेदित्यर्थः । तामित्युत्तरश्लोकेन संबन्धः ॥
तां [^3]जानीथाः परिमितकथां जीवितं मे द्वितीयं
दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् ।
[^1] आस्ते. [^2] एव. [^3] जानीयाः