This page has been fully proofread once and needs a second look.

क्षणैस्तोरणादिभिरभिज्ञानैर्द्वारोपान्ते ॥ एकवचनमविवक्षितम् ॥ द्वार-
पार्श्वयोरित्यर्थः ॥ लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खप-
द्मौ नाम निधिविशेषौ ॥ "निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः "
इत्यमरः ॥ दृष्ट्वा च नूनं सत्यमधुनेदानीम् ॥ “ अधुना " इति निपातः ।
मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीण-
कान्तिभवनं मद्गृहं लक्षयेथा निश्चिनुयाः । तथाहि । सूर्यापाये सति
कमलं पद्मं स्वामात्मीयामभिख्यां शोभाम् ॥ “ अभिख्या नामशोभयोः "
इत्यमरः । न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पति-
विरहितं गृहं न शोभत इत्यर्थः ।
 
निजगृहनिश्चयानन्तरं कृत्यमाह -
 
गत्वा सद्यः कलभतनुतां [^1]शीघ्रसंपातहेतोः
क्रीडाशैले प्रथमकथिते रम्यसानौ निषण्णः।
अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं
खद्योतालीविलसितनिभां विद्युदुन्मेषदृष्टिम् ॥ १८ ॥
 
गत्वेति ॥ हे मेघ, शीघ्रसंपात एव हेतुस्तस्य । शीघ्रप्रवेशार्थमि-
त्यर्थः ॥ “षष्ठी हेतुप्रयोगे" इति षष्ठी ॥ " संपातः पतने वेगे प्रवेशे
वेदसंविदे” इति शब्दार्णवे ॥ सद्यः सपदि कलभस्य करिपोतस्य तनु-
रिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते
“तस्यास्तीरे" इत्यादिना पूर्वोद्दिष्टे रम्यसानौ । निषीदनयोग्य इत्यर्थः ।
क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पाल्पप्रकारा भाः प्रकाशो
यस्यास्ताम् ॥ "प्रकारे गुणवचनस्य" इति द्विरुक्तिः ॥ खद्योताना-
माली तस्या विलसितेन स्फुरितेन निभां समानां विद्यदुन्मेषो विद्युत्प्र-
काशः स एव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तु-
मर्हसि । यथा कश्चित्किंचिदन्विष्यङ्क्वचिदुन्नते स्थित्वा शनैः शनैरति -
तरां द्राघीयसीं दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥
 
संप्रति दृष्टिपातफलस्याभिज्ञानं श्लोकद्वयेनाह --
 
तन्वी श्यामा शिखरिदशना पक्वबिम्बा[^2]धरोष्ठी
मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः ।
 
[^1] तत्परित्राण. [^2] अधरौष्ठी.