This page has been fully proofread once and needs a second look.

[^1]तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि-
र्मूले [^2]बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः ।
तालैः [^3]शिञ्जावलयसुभगैर्न[^4]र्तितः कान्तया मे
यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ १६ ॥
 
तन्मध्य इति ॥ किं चेति चार्थः ॥ तन्मध्ये तयोर्वृक्षयोर्मध्येऽन-
तिप्रौढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुण-
वेणुसच्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा । कृतवेदिकेत्यर्थः ॥ स्फ-
टिकं स्फटिकमयं फलकं पीठं यस्याः सा काञ्चनस्य विकारः काञ्चनी
सौवर्णी वासयष्टिर्निवासदण्डः । अस्तीति शेषः ॥ शिञ्जा भूषणध्व-
निः ॥ "भूषणानां तु शिञ्जितम्" इत्यमरः ॥ भिदादित्वादङ् ॥ शि-
ञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः ॥ शिञ्जाप्रधानानि वलयानि तैः
सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्मा-
कं सुहृत्सखा नीलकण्ठो मयूरः ॥ "मयूरो बर्हिणो बर्ही नीलकण्ठो
भुजङ्गभुक्" इत्यमरः ॥ दिवसविगमे सायंकाले यां यष्टिकामध्या-
स्ते । यष्ट्यामास्त इत्यर्थः ॥ “ अधिशीङ्स्थासां कर्म " इति कर्मत्वा-
द्द्वितीया ॥ “तत्रागारम्" इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तु-
वर्णनादुदात्तालंकारः । तदुक्तम् – “तदुदात्तं भवेद्यत्र समृद्धं वस्तु
वर्ण्यते” इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा तत्र तथास्थितवस्तु-
वर्णनात् । अत्र तु “कविप्रतिभोत्थापितसंभाव्यमानैश्वर्यशालिवस्तुवर्ण-
नादारोपितविषयत्वमिति ताभ्यामस्य भेदः" इत्यलंकारसर्वस्वकारः ॥
 
एभिः साधो हृदयनिहितैर्लक्षणै[^5]र्लक्षयेथा
द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा ।
[^6]क्षामच्छायं भवनमधुना मद्वियोगेन नूनं
सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ १७ ॥
 
एभिरिति ॥ हे साधो निपुण ॥ “साधुः समर्थो निपुणो वा" इति
काशिकायाम् । हृदयनिहितैः । अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्त्तैर्ल-
 
[^1] तत्तन्मध्ये [^2] नद्धा [^3] सिञ्जत्. [^4] नर्तितैः [^5] लक्षणीयम्. [^6] मन्द-
च्छायम्.