This page has been fully proofread once and needs a second look.

शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभा-
वादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेsपि शालग्रामे
हरिभावनादर्शनादिति ॥
 
रक्ताशोकश्चलकिसलयः केसर[^1]श्चात्र कान्तः
[^2]प्रत्यासन्नौ कुरबकवृतेर्माधवीमण्डपस्य ।
एकः सख्यास्तव सह मया वामपादाभिलाषी
काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १५ ॥
 
रक्तेति ॥ अत्र क्रीडाशैले कुरबका एव वृतिरावरणं यस्य तस्य ।
मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य ॥
“अतिमुक्तः पुण्डूकः स्याद्वासन्ती माधवी लता" इत्यमरः ॥ प्रत्यासन्नौ
संनिकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्ज -
लित्वं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् ।
"प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र
स्मरवर्धनः॥” इत्यशोककल्पे दर्शनात् ॥ कान्तः कमनीयः केसरो बकुलश्च ॥
“अथ केसरे । बकुलो वञ्जुलः " इत्यमरः ॥ स्त इति शेषः ॥ एकस्तयो-
रन्यतरः । प्राथमिकत्वादशोक इत्यर्थः । मया सह तव सख्याः ।
स्वप्रियाया इत्यर्थः ॥ वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि संबन्धनी-
यम् ॥ स चाहं च । अभिलाषिणावित्यर्थः ॥ अन्यः केसरः । दोहदं
वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् ॥ "तरुगुल्मलतादीनामकाले
कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥” इति
शब्दार्णवे ॥ तस्य छद्मना व्याजेन ॥ “कपटोऽस्त्री व्याजदम्भोपध-
यश्छद्म कैतवे" इत्यमरः ॥ अस्यास्तव सख्या वदनमदिरां गण्डूषमद्य
काङ्क्षति ॥ मया सहेत्यत्रापि संबन्धनीयम् ॥ अशोकबकुलयोः स्त्रीपा-
दताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ॥ "स्त्रीणां स्पर्शात्प्रियङ्गु -
र्विकसति बकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलककुरबकौ
वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्पटुमृदुहसनाच्चम्पको वक्त्रवा-
ताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः" ॥
 
[^1] तत्र. [^2]. प्रत्यासन्नः.