2022-10-03 13:36:58 by suhasm
This page has been fully proofread once and needs a second look.
वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो
यस्याः सा तथोक्ता । विदूरे भवा वैदूर्याः ॥ विदूराञ्ञ्यः” इति
ञ्यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि ॥ विकारार्थेण्प्रत्ययः ॥
स्निग्धानि वैदूर्याणि नालानि येषां तैर्हैमैः सौवर्णैर्विकचकमलैश्छन्ना
वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसतयः कृतनि-
वासा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वर्षाकालेऽपि व्यपगत-
कलुषजलत्वाद्वीतदुःखाः सन्तः संनिकृष्टं संनिहितम् । सुगममपीत्यर्थः ।
मानसं मानससरो नाध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ " आध्या-
नमुत्कण्ठापूर्वकं स्मरणम्" इति काशिकायाम् ॥
[^1]तस्यास्तीरे [^2]रचितशिखरः पेशलैरिन्द्रनीलैः
क्रीडाशैलः कनककदली[^3]वेष्टनप्रेक्षणीयः ।
मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण
प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ १४ ॥
तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ “चारौ दक्षे
च पेशलः” इत्यमरः ॥ इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमय-
शिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधिना प्रेक्षणीयो दर्श-
नीयः क्रीडाशैलः । अस्तीति शेषः ॥ हे सखे, उपान्तेषु प्रान्तेषु स्फु-
रितास्तडितो यस्य तत्तथोक्तम् ॥ इदं विशेषणं कदलीसाम्यार्थमुक्तम् ॥
इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते ॥ त्वां प्रेक्ष्य
मद्गेहिन्याः प्रिय इति हेतोः । तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरि-
त्यर्थः ॥ कातरेण भीतेन चेतसा ॥ भयं चात्र सानन्दमेव । "वस्तू-
नामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भी -
र्यथा भवेत् ॥” इति रसाकरे दर्शनात् ॥ तमेव क्रीडाशैलमेव स्मरामि ॥
एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिष्टार्थस्मृतिर्जा-
यत इत्यर्थः । अत एवात्र स्मरणाख्योऽलंकारः । तदुक्तम् – “सदृ-
शानुभवादन्यस्मृतिः स्मरणमुच्यते” इति ॥ निरुक्तकारस्तु “त्वां
तमेव स्मरामि " इति योजयित्वा मेघे शैलत्वारोपमाचष्टे तदसंगतम् ।
अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः
[^1] यस्याः. [^2] निचित [^3] वेष्टनः