This page has been fully proofread once and needs a second look.

पीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते
जनयति । न तु नानासाधनसंपादनप्रयास इत्यर्थः ॥
 
इत्थमलकायां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह -
 
[^1]तत्रागारं धनपति[^2]गृहानुत्तरेणास्मदीयं
दूराल्लक्ष्यं [^3]सुरपतिधनुश्चारुणा तोरणेन ।
यस्योपा[^4]न्ते कृतकतनयः कान्तया वर्धितो मे
हस्तप्राप्यस्तबक[^5]नमितो बालमन्दारवृक्षः ॥ १२ ॥
 
तत्रेति ॥ तत्रालकायां धनपतिगृहात्कुबेरगृहादुत्तरेणोत्तरस्मिन्नदूर-
देशे ॥ "एनबन्यतरस्यामदूरेऽपञ्चम्याः" इत्येनप्प्रत्ययः । “एनपा
द्वितीया" इति द्वितीया ॥ “गृहाः पुंसि च भूम्न्येव" इत्यमरः ॥
[^6] अथवा "उत्तरेण" इति नैनप्प्रत्ययान्तं किंतु "तोरणेन" इत्यस्य
विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहि-
र्द्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ “वृद्धाच्छः " इति
पक्षे छप्रत्ययः ॥ अगारं गृहम् । सुरपतिधनुश्चारुणा मणिमयत्वादभ्रंक-
षत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूराल्लक्ष्यं दृश्यम् । अनेनाभि-
ज्ञानेन दूरत एव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाह - यस्यागा-
रस्योपान्ते प्राकारान्तःपार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृत-
कतनयः कृत्रिमसुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्ह-
स्तावचेयैः स्तबकैर्गुच्छैर्नमितः ॥ " स्याद्गुच्छकस्तु स्तबकः” इत्यमरः ॥
बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥
 
इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह-
 
वापी चास्मिन्मरकतशिलाबद्धसोपानमार्गा
हैमैश्छन्ना [^7]विकचकमलैः स्निग्धवैदूर्यनालैः ।
यस्थास्तोये कृतवसतयो मानसं संनिकृष्टं
ना[^8]ध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ १३ ॥
 
[^1] अत्र. [^2] गृहात्. [^3] तदमरधनुः, [^4] उद्याने. [^5] विनतः [^6] गृहादिति
पञ्चम्यन्तपाठपक्षे [^7] विकचकुसुमैः; कमलमुकुलैः [^8] ध्यास्यन्ति; ध्यायन्ति.