This page has been fully proofread once and needs a second look.

सभ्रूभङ्गप्रहितनयनैः [^1]कामिलक्ष्येष्वमोघै-
स्तस्यारम्भ[^2]श्चतुरवनिताविभ्रमैरेव सिद्धः ॥ १० ॥
 
मत्वेति ॥ यत्रालकायां मन्मथः कामः । धनपतेः कुबेरस्य सखेति
धनपतिसखः ॥ “राजाहःसखिभ्यष्टच्" ॥ तं देवं महादेवं साक्षा-
द्वसन्तं सखिस्नेहान्निजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भालेक्षणभ-
यात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न
बिभर्ति ॥ कथं तर्हि तस्य कार्यसिद्धिरत आह - सभ्रूभङ्गेति ॥ तस्य
मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्गं प्रहितानि प्रयुक्तानि
नयनानि दृष्टयो येषु तैस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोघैः ।
सफलप्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति
भावः ॥ चतुराश्च ता वनिताश्च तासां विभ्रमैर्विलासैरेव सिद्धो निष्पन्नः ।
यदनर्थकरं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति
भावः ॥
 
"कचधार्यं देहधार्यं परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः
स्त्रीणामन्यच्च दैशिकम् ॥” इति रसाकरे । तदेवैतदाह-
 
वासाश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं
पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् ।
लाक्षारागं चरणकमलन्यासयोग्यं च यस्या-
मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ११ ॥
 
वास इति ॥ यस्यामलकायां चित्रं नानावर्णं वासो वसनम् । प-
रिधेयमण्डनमेतत् नयनयोर्विभ्रमाणामादेश उपदेशे दक्षम् । अनेन
विभ्रमद्वारा मधुनो मण्डनत्वमनुसंधेयम् । तच्च मण्डनादिवद्देहधार्ये-
ऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उ-
भयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । दे-
हधार्यमेतत् । तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्य-
तेऽनेनेति रागो रञ्जकद्रव्यम् । लाक्षैव रागस्तं लाक्षारागं च ॥ चका-
रोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधम-
 
[^1] कामलक्षेषु. [^2] चटुल