This page has been fully proofread once and needs a second look.

धूमनिर्गमस्यानुकृतावनुकरणे निपुणा कुशला । जर्जरा विशीर्णाः सन्तो
जालमार्गैर्गवाक्षरन्ध्रैर्निष्पतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसं-
चारवता दूतेन गूढवृत्त्या रहस्यभूमिं प्रापितास्तत्र स्त्रीणां व्यभिचार-
दोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेषान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति
तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ।
 
यत्र स्त्रीणां प्रियतम[^1]भुजालिङ्गनोच्छ्वासिताना-
मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः ।
त्वत्संरोधापगमविशदै[^2]श्चन्द्रपादैर्निशीथे
व्यालुम्पन्ति [^3]स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७॥
 
यत्रेति ॥ यत्रालकायां निशीथेऽर्धरात्रे ॥ "अर्धरात्रनिशीथौ द्वौ "
इत्यमरः ॥ त्वत्संरोधस्य मेघावरणस्यापगमेन विशदैर्निर्बलैश्चन्द्रपादै-
श्चन्द्रमरीचिभिः ॥ “पादा रश्म्यङ्घ्रितुर्यांशाः" इत्यमरः ॥ स्फुटजल-
लवस्यन्दिन उल्बणाम्बुकणस्राविणस्तन्तुजालावलम्बा वितानलम्बिसू-
त्रपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः ।
प्रियतमानां भुजैरालिङ्गनेषूच्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या
जलसेकाय वा शिथिलिताङ्गनानामिति यावत् । स्त्रीणां सुरतज-
नितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्या-
लुम्पन्त्यपनुदन्ति ॥
 
अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै-
रुद्गायद्भिर्धनपतियशः किंनरैर्यत्र सार्धम् ।
वैभ्राजाख्यं विबुधवनितावारमुख्यासहाया
बद्धालापा बहिरूपवनं कामिनो निर्विशन्ति ॥ ८ ॥
 
अक्षय्येति ॥ यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ " क्षय्यजय्यौ
शक्यार्थे” इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भ-
वनम् ॥ "अव्ययं विभक्ति-" इत्यादिनाव्ययीभावः ॥ अक्षय्या अ
न्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसंभावनार्थमिदं
 
[^1] भुजोच्छ्वासितालिङ्गितानाम् [^2] प्रेरिताश्चन्द्रपादैः, प्रेरितैश्चन्द्रपादैः, चोदिता-
श्चन्द्रपादैः, चोदितैश्चन्द्रपादैः. [^3] नव.