This page has been fully proofread once and needs a second look.

मातापितृभ्यां जगतो नमो वामार्धजानये ।
सद्यो दक्षिणदृक्पातसंकुचद्वामदृष्टये ॥
 
अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् ।
तन्नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥
 
शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीव्यम् ।
करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥
 
इहान्वयमुखेनैव सर्वं व्याख्यायते मया ।
नामूलं लिख्यते किंचिन्नानपेक्षितमुच्यते ॥
 
“आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति −
 
कश्चित्कान्ताविरहगुरुणा स्वा[^1]धिकारात्प्रमत्तः
शापेनास्तंगमितमहिमा वर्षभोग्येण भर्तुः ।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु
स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १ ॥
 
कश्चिदिति ॥ स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ " प्रमादोऽनवधानता" इत्यमरः । “जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्” इत्यपादानत्वम् । तस्मात्पञ्चमी । अतएवापराधाद्धेतोः । कान्ताविरहेण
गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ॥ " गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि
 
[^1] स्वाधिकारप्रमत्तः