This page has been fully proofread once and needs a second look.

अर्चिस्तुङ्गान[^1]भिमुखमपि प्राप्य रत्नप्रदीपा-
न्ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ५ ॥
 
नीवीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेषु प्रियेषु । नीवी
वसनग्रन्थिः ॥ “नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि” इति
विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्व -
सितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादाक्षिपत्स्वाहरत्सु सत्सु ह्री-
मूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ "बिम्बं फले बि-
म्बिकायाः प्रतिबिम्बे च मण्डले” इति विश्वः ॥ बिम्बमिवाधरो यासां
तासां बिम्बाधराणां स्त्रीविशेषाणाम् ॥ " विशेषाः कामिनीकान्ता-
भीरुबिम्बाधराङ्गनाः” इति शब्दार्णवे ॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चि-
र्भिर्मयूखैस्तुङ्गान् ॥ “अर्चिर्मयूखशिखयोः” इति विश्वः ॥ रत्नान्येव
प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापणाक्षम-
त्वान्निष्फलक्षेपा भवति ॥ अत्राङ्गनानां रत्नप्रदीपनिर्वापणप्रवृत्त्या
मौग्ध्यं व्यज्यते ॥
 
नेत्रा नीताः सततगतिना [^2]यद्विमानाग्रभूमी-
रालेख्यानां [^3]नवजलकणैर्दोषमुत्पाद्य सद्यः ।
शङ्कास्पृष्टा इव जलमुच[^4]स्त्वादृशा जालमार्गै-
र्धूमोद्गारानुकृति[^5]निपुणा जर्जरा निष्पतन्ति ॥ ६ ॥

नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥
“मातरिश्वा सदागतिः" इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभू-
मिकभवनानामग्रभूमीरुपरिभूमिका नीताः प्रापिताः । त्वमिव दृश्यन्त
इति त्वादृशाः । त्वत्सदृशा इत्यर्थः ॥ “त्यदादिषु दृशोऽनालोचने कञ्च "
इति कञ्प्रत्ययः ॥ जलमुचो मेघाः । आलेख्यानां सच्चित्राणाम् ॥
" चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः" इति शब्दार्णवे ॥
नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भ-
याविष्टा इव ॥ "शङ्का वितर्कभययोः" इति शब्दार्णवे ॥ धूमोद्गारस्य
 
[^1] अभिमुखगतान्. [^2] ये [^3] स्वजलकणिका; सजलकणिका. [^4] त्वादृशो यत्र
जालैः. [^5] निपुणम्.