This page has been fully proofread once and needs a second look.

स्ताराग्निभाज्वालादृक्पुत्रार्थाध्वरात्मसु " इति वैजयन्ती ॥ एतेन
पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्व-
निरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ "पुष्करं करिहस्ताग्रे
वाद्यभाण्डमुखे जले" इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतच्च
नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थ-
प्रदत्वान्मध्वपि तत्र प्रसूतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु
मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ "तालक्षीरसितामृतामलगुडो-
न्मत्तास्थिकालाह्वयादार्विन्द्रद्रुममोरटेक्षुकदलीगुग्लुप्रसूनैर्युतम् । इत्थं चे-
न्मधुपुष्पभङ्ग्युपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं
स्वादु शीतं मधु ॥ " इति मदिरार्णवे ॥
 
मन्दाकिन्याः [^1]सलिलशिशिरैः सेव्यमाना मरुद्भि-
र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः ।
अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः
संक्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ४ ॥
 
मन्दाकिन्या इति ॥ यत्रालकायाममरैः प्रार्थिताः । सुन्दर्य इत्य-
र्थः । कन्या यक्षकुमार्यः ॥ " कन्या कुमारिकानार्योः " इति विश्वः ॥
मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैर्मरुद्भिः सेव्यमानाः
सत्यः । तथानुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ क्विप् ॥ तेषां मन्दा-
राणां छाययानातपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सि
कतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यैर्मणिभी रत्नैः
संक्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः ॥
"क्रीडोऽनुसंपरिभ्यश्च” इत्यात्मनेपदम् ॥ "रत्नादिभिर्वालुकादौ
गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता ॥
रासक्रीडा गूढमणिर्गुप्तकेलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता
दैशिककेलयः ॥” इति शब्दार्णवे ॥
नीवीबन्धो[^2]च्छ्वसितशिथिलं यत्र [^3]बिम्बाधराणां
[^4]क्षौमं रागादनिभृतकरेष्वाक्षिपत्सु प्रियेषु ।
 
[^1] पयसि. [^2] उच्छ्वसन. [^3] यक्षाङ्गनानाम्. [^4] वासः कामात्.